________________
शास्त्रवार्तासमुच ॥२५३॥
BROKAR
यदा च वस्तुनो देश एक सच्चे नियतः, द्वितीयश्चासत्वे, तृतीयस्तूभयथाऽभिधित्सितस्तदा तथाभूतविशेषणाध्या- सटीकः।
स्तवकः। सितस्यानेनैव प्रकारेण प्रतिपादनादीदृशेऽर्थेऽपरभङ्गविषयाप्रसरात् सप्तमभङ्गप्रवृत्तिः । तदिदमाह
॥ ७॥ "सब्भावासब्भावे देसो देसो अ उभयहा जस्स । तं अत्थि णत्थवत्तव्ययं च दविअं विअप्पवसां ॥१॥” इति ।
अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा परिकल्पनेऽष्टमोऽपि विकल्पः किं न स्वीक्रियते ? इति चेत् । न, तत्परिकल्पनानिमित्ताभावात् , सावयवात्मकस्य निरवयवात्मकस्य चान्योन्यनिमित्तकस्य जिज्ञासायां चतुर्थादिप्रथमादिविकल्पानामेव प्रवृत्तेः । किञ्च, क्रमेण धर्मद्वयं गुण-प्रधानभावेन प्रतिपादयन् प्रथम द्वितीयावेव भङ्गावाददीत, युगपत्तु द्वयमभिधित्सुस्तृतीयमेव, क्रमेण प्राधान्येन द्वयमभिधित्सुराध-द्वितीयसंयोगनिष्पन्नं चतुर्थमेव, एकं विभज्यापरं चाविभज्याभिधित्सुः प्रथम-तृतीयसंयोगनिष्पन्न पश्चमम् , द्वितीय-तृतीयसंयोगनिष्पन्न षष्ठं वा, द्वौ देशौ विभज्य तृतीयं चाविभज्याभिधित्सुराद्य-द्वितीय-तृतीयसंयोगनिष्पन्न सप्तममेव, इति चतुरादिदेशोपादानेऽपि द्विव्यादीनामेकविभाजकोपरागविश्रामाद् । न सप्तमाद्यतिक्रमः, एककरदण्डसंयोगे करव्यदण्डसंयोगे वा दण्डित्वाविशेषात् । अनेकान्त उद्भूतद्वित्वादिविवक्षया स्यादेव विशेष इति चेत् । स्यादेव तर्हि भङ्गावान्तरभेदोऽपि । अत एव मल्लवादिप्रभृतिभिरेते कोटीशो भवन्तो भेदा अभिहिताः। विभाजकोपाध्यनतिक्रपात्तु न विभागव्याघात इति तत्वम् । सद्भावासद्भावे देशो देशश्चोभयथा यस्य । तदस्ति नास्त्यवक्तव्यं च द्रव्यं विकल्पवशात् ।। १॥२ सम्मतिप्रकरणे गाथा ४० ।
॥२५३॥
PRESE
Jain Education
na
For Private Personal Use Only