________________
नातिप्रसङ्गः । अवयवेन च विशिष्टधर्मेण विभज्यैकमादिश्यमानं सुप्रसिद्धमेव । यथैक एव पुरुषो विवक्षितपर्यायेण बालादिना परिणतः कुमारादिना चापरिणत इति । तदिदमुक्तम्--- "अह देसो सम्भावे देसोऽसम्भावपजए णियो। तं दवियमस्थि णत्थि य आएसविसेसि जम्हां ॥१॥" इति ।
यदा च देशोस्तित्वेऽवक्तव्यत्वानुविद्धस्वभाव आदिश्यते, अपरश्च देशोऽस्तित्व-नास्तित्वाभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यत्वस्वभावे, तदा पश्चमभङ्गप्रवृत्तिः, प्रथम-तृतीयकेवलभङ्गव्युदासोत विवक्षाभेदकृतो द्रष्टव्यः, प्रथम-तृतीययोः परस्परानुपरक्तयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात् , प्रतिपादकेनापि तथैव विवक्षितत्वात् , अत्र तु तद्विपययात् , अनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् । तदिदमाह--- __"सैन्भावे आइटो देसो देसो अ उभयहा जस्स । तं अत्थि अवत्तव्यं च होइ दवियं विअप्पवसा ।। १॥"
यदा च वस्तुनो देश एकोऽसत्वेऽवक्तव्यत्वानुविढे निश्चितः, अपरश्चासत्वानुविद्धो युगपदुभयथा विवक्षितस्तदा तथाव्यपदेश्यावयववशादवयविनि षष्ठभङ्गप्रवृत्तिः, केवल द्वितीय-तृतीयभगव्युदासः प्राग्वत् , प्रतिपाद्यजिज्ञासावशात् । तदिदमाह
"आइहोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवि विअप्पवा ॥१॥" १ अथ देशः सद्भावे देशोऽसद्भावपर्यवे नियतः । तद् द्रव्यमस्ति नास्ति चादेशविशेषितं यस्मात् ॥ 1 ॥ २ सम्मतिप्रकरणे गाथा ३७ । ३ सद्भाव आदिष्टो देशो देशश्चोभयथा यस्य । तदस्त्यवक्तव्यं च भवति व्यं विकल्पवशात् ॥1॥ ४ सम्मती गाथा ३८ । ५ आदिष्टोऽसद्भावे देशो देशश्चोभयथा यस्य । तद् नास्त्यवक्तव्यं च भवति द्रव्यं विकल्पवशात् ॥ ३॥ ६ सम्मतो गाथा ३९ ।
STORESIDE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org