________________
"पुण्णफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफले वि समं पच्चक्खविरोहिया चेवं ॥१॥
जत्तो चिय पच्चक्खं सोम्म ! सुहं पत्थि दुक्खमेवेदं । तप्पडियारेविभिण्णं तो पुण्णफलं ति दुक्खं ति ॥२॥ विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छि व्य । तं सुहमुवयाराओ ण य उवयारो विणा तच्चं ॥३॥" इति ।
अत एव व्यास-पतञ्जलिप्रभृतिभिरपि संसारे सुखाभाव एवोक्तः । गौतमेनापि चैकविंशतिदुःखमध्य एव सुखं परिगणितमिति । न च वस्तुभूतसुखप्रतिक्षेपाद् विपर्यासः, स्वाभाविकसुख-विकाररूपयोयोरेकपक्षनिक्षेपे विपर्यासायोगादिति दिक्॥१४॥
अथ फलितमाहप्रकृत्यासुन्दरं ह्येवं संसारे सर्वमेव यत् ।अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ?
एवमुपदर्शितप्रकारेण, हि निश्चितं, यद् यस्मात् कारणात् , सर्वमेव प्रियसंयोगादिकं, संसारे जगति, प्रकृत्या स्वभावेन, असुन्दरं बलबदनिष्टानुबन्धीष्टसाधनत्वाभाववत् । अतो हेतोः, अत्र संसारे, 'वद' इति शिष्यसंबोधनं व्यामोहादिदोषनिरासेनाऽवधानार्थम् , किं क्वचित् प्रियसंयोगादौ, विवेकिनामिष्टसाधनत्वाद्यशेऽभ्रान्तानाम् , आस्था प्रवृत्त्यादिरूपा, तत्प्रवर्त
१ पुण्यफलं दुःखमेव कांदयतः, फलमिव पापस्य । ननु पापफलेऽपि समं प्रत्यक्षविरोधिता चैवम् ॥ १॥ यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकारविभिन्न ततः पुण्यफलमिति दुःखामेति ॥२॥ विषयसुखं दुःखमेव दुःखप्रतीकारतश्चिकित्सेव । तत्सुखमुपचाराद् न चोपचारो विना तथ्यम् ॥ ३॥ २ विशेषावश्यकपुस्तके 'विभत्त' इति पाठः । ३ मलपुस्तके, स्वोपज्ञटीकायां च 'प्रकृत्यम्' इति समस्त एवं पाठो दृश्यते ।
Foadies
For Private & Personal Use Only
in Educh an inte
w.jainelibrary.org