SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥ ८ ॥ तथा- अनित्याः संपदस्तीत्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह सर्व भावनिबन्धनम् ॥ १३ ॥ तीव्रो दुःसहो यः क्लेशवर्गों निशितशरप्रवाहपरायणकिराताक्रान्त विकटकान्तारगमन प्रतिकूलपवन समुच्छलद्बहलजलपरिक्षुब्धजलधियानपात्रारोहण- प्रकृतिभीषणराजसेवादिजन्यः, ततः समुद्भव उत्पत्तिर्यासामेतादृश्यः संपदोऽनित्या विद्युद्विलसितवदकस्माद् नश्वराः । तथा, इह जगति, सर्वभावनिबन्धनं सकलव्यवहारकारणम्, जीवितं चाऽनित्यम् । इदमैहिकं दुःखमुक्तम् ॥ १३ ॥ अथाssमुष्मिकं तदाह पुनर्जन्म पुनर्मृत्युहींना दिस्थानसंश्रयः । पुनः पुनश्च यदतः सुखमत्र न विद्यते ॥ १४ ॥ पुनरेतज्जन्मापेक्षयाऽग्रिमं जन्म, बीजरूपस्य जन्मान्तरनिमित्तादृष्टस्य सत्वेऽङ्कुररूपस्य जन्मान्तरस्य प्रादुर्भावात् । तथा, पुनर्जन्मनि सति पुनर्मृत्युः, जन्मनो मृत्युनान्तरीयकत्वात् । तथा, प्रागुपात्तनीचैर्गोत्रादिकर्मविपाकात्पुनः पुनश्च वारं वारं च, हीनादिस्थानानाममा-धमतरी -ऽधमतमादिजातीनां संश्रय आश्रयणं यद् यस्मात् कारणात्, अतो हेतोः, अत्र जगति, सुखं प्रवृत्त्युपयोगि न विद्यते, व्यवहारतः प्रतिभासमानस्याऽपि सांसारिकस्य सुखस्य बहुतरदुःखानुविद्धत्वेन हेयत्वात् निश्चयतस्तु कर्मोदयजनितत्वात् सुखशब्दवाच्यतामेव नेदमास्कन्दति । तदुक्तं विशेषावश्यके - १ ग.घ.च. 'मादि' । २ ख. 'रादि' । ३ एकादशे गणधरवादे गाथा ३३, ३४, ३५ । Jain Education International For Private & Personal Use Only सटीकः । ॥ ८ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy