________________
Jain Education In
5565
प्रतिबन्धकत्वादलसस्य स्वल्पदुःखजनकेऽपि बलवद्वेषाद् न प्रवृत्तिः, रागान्धस्य च बहुदुःखजनकेऽपि तद्विरहात् प्रवृत्तिः' इत्यपास्तम्, निषिद्धे बलवद्वेषस्याऽप्यावश्यकत्वात्, अन्यथा विषभक्षणादावपि तेंदुपपत्तेः इति चेत् । सत्यम्, दोषमहिम्नैव पारदार्यादिफलेच्छाविघातस्य, तंत्र बलवद्वेषस्य चानुदयाद् रागान्धप्रवृत्युपपत्तेः । तदुक्तम्
मोहमाच
" जाणिज्जइ चिन्तिज्जइ जम्म-जरा-मरणसंभवं दुक्खम् । न य विसएसु विरज्जइ अहो ! सुबद्धो कवडगंठी ॥ १ ॥ " इति । शास्त्रबोधितं दुःखवलवमेव वा कर्मोदयदोषेणाऽयोद्यत इति । अधिकमस्मत्कृताऽध्यात्ममतपरीक्षायाम् । नन्वेवमेतादृशकर्मणः शास्त्रेणाऽनपनयनात् तद्वैफल्यमिति चेत् । न, अनिकाचितस्य तस्य शास्त्राभ्यासनिवर्तनीयत्वादिति दिग् ॥ ११ ॥ यदुक्तम् - अन्यत् सर्व दुःखकारणमिति, तदेव विवेचयति
अनित्यः प्रियसंयोग इहेयशोकवत्सलः । अनित्यं यौवनं चापि कुत्सिताचरणास्पदम्॥१२॥ इह संसारे, ईर्ष्या प्रतिपक्षाभ्युच्चयजनितो मत्सर विशेषः, तदत्ययादिचिन्ताप्रभवो दुःखभेदः शोकः, तौ वत्सलावश्योपनतकारणौ यत्र तादृशः प्रियसंयोगो वल्लभसमागमः, अनित्यः स्वप्नसमागतकामिनीविलासवत् पर्यन्तविनश्वरप्रकृतिः । एतेन पूर्व पञ्चाच्च दुःखानुबन्धित्वं प्रियसंयोगस्योक्तम् | यौवनमपि कुसुमशरमित्रं वयोऽपि, कुत्सिताचरणस्य कामक्रीडादिगहिंताचारस्याssस्पदं मूलभूतम्, अनित्यं च ।। १२ ।।
१ ग. 'पि प्रवृत्त्यनुप' २ ख. 'तदनुप' । ३ ख. ग. घ. च. 'ल्याद दो' । ४ अङ्गनासङ्गादिदुःखविषये । ५ ज्ञायते चिन्त्यते जन्म-जरा-मरणसंभवं दुःखम् । न च विषयेषु विरज्यतेऽहो ! सुबद्धः कपटग्रन्थिः ॥ १ ॥
topcccccccccccccccccccco
For Private & Personal Use Only
ww.jainelibrary.org