SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। . उपादेयश्च ग्राह्यश्च, बुधैतितत्त्वैः, सदा दुःखदभोगादिकालव्यवच्छेदेन, मुक्तये मोक्षार्थ, विशुद्धो निरतिचारः, धर्म एव; यतोऽन्यद् धर्मभिन्न, सर्व सक-चन्दना-ङ्गनाऽऽलिङ्गनादिकं, दुःखसाधनं नरकायनुवन्धि । इत्थं च न तत्र प्रवृत्तिन्योयप्राप्तेत्यवधारणौचित्यम् । न खल्विष्टसाधनताज्ञानमात्र प्रवृत्तिहेतुः, मधु-विषसंपृक्ताऽन्नभोजनेऽपि प्रवृत्तिप्रसङ्गात; किन्तु बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानम्, न च तथात्वं शृङ्गारादिविषयाणामिति । नन्वेवमविरतसम्यग्दृशां कथं निषिद्धकमेणि प्रवृत्तिः । रागान्धतया तजन्यदुःखे बलवत्त्वाप्रतिसन्धानादिति चेत् । न, तत्र बलवैवस्य निषेधविधिनेव बोधात् । न्यूनदुःखजनकत्वज्ञानस्याऽप्यलसप्रवृत्तिप्रतिपन्थित्ववद् बलबदुःखानुवन्धित्वज्ञानस्याऽपि रागान्धप्रत्तावपतिपन्थित्वाद् न दोषः, इत्यपि न सम्यग, दुःखमात्रभीरोरलसस्य प्रवृत्तिफलेच्छाया एवाऽनुदयादमत्युपपत्तेः, अत्र च रागान्धस्य द्वेषानुदयेऽपि विसामग्रीवशादेव प्रवृत्त्यनुपपत्तेः । अथ प्रवृत्ताविष्टसाधनताज्ञानमेव हेतुः, न तु बलवदनिष्टाननुबन्धित्वज्ञानमपि, फल उत्कटेच्छाविरहविशिष्टदाखजनकत्वज्ञानं च प्रवृत्तिप्रतिबन्धकम, इति न मधु-विषसंपृक्तानभाजने प्रत्तिः अलसस्य च यदि फलेच्छाऽस्ति तदा दुःखद्वषादपकृष्टा समा बा, न तूत्कटा, इति प्रतिबन्धकसाम्राज्याद् न तस्य प्रवृत्तिः रागान्धानां च पारदायर्यादिफले उत्कटेच्छासस्थात तत्र प्रवृत्तिरिति चेत। न, तथापि निषेधविधिसामथ्या दुःखेत्युत्कटताविज्ञानस्य प्रवृत्तिफले उत्कटेच्छाविघातकतया प्रकृतानुपपत्तेः । एतेन 'प्रवृत्ती समानविशेष्यतया बलवद्वेषस्यैव कार्यसहभावेन १ ख.ग.प.च.'न्यत् सर्वं ध'। २ प्रवृत्तिहेतुरित्यन्वयः । ३ अस्याऽभ्यन्तरीकृतान्यपूर्वपक्षोसरपक्षस्य मूलपूर्वपक्षस्य "प्रत्यनुपपत्तेरिति चेत्" इति पर्यन्तेन संबन्धः । ४ ख. 'वदन्वयस्य'। ५ 'इदमनिष्टम् ' इत्याकारकस्य द्वेषस्य । Jain Education Inf o For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy