SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ TEE साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रम्, भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्यम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकमधानेन, सेवितव्यो गुरुजनः, कर्तव्यं योगपददर्शनम् , स्थापनीयं तद्रूपादि च चेतसि, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्पतिमा, लेखनीयं . भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम् , पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम् , बर्तितव्यमुत्तमज्ञानेन" इति । 'नानिवृत्ताधिकारायां प्रकृतावेवंभूताः' इति कापिलाः । 'नाऽनवाप्तभवविपाके' इति च सौगताः । 'अपुनर्बन्धकस्त्वेवंभूतः' इत्यार्हताः । न चाऽपुनबन्धकस्याधिकारिविशेषणस्याऽनिश्चये प्रवृत्यनुपपत्तिरिति शङ्कनीयम् , अशाठ्यपूर्वकैतत्मयत्नेनैव तन्निश्चयात् । तदुक्तम्- "भमोऽप्येतद्यनलिङ्गोऽपुनर्बन्धकः" इति; तं प्रत्युपदेशसाफल्यमिति । आदित एतत्पयत्न एवाऽस्य कथम् ?, इति चेत् । 'अविरुद्धकुलाचारादिपरिपालनाद्यर्थितया' इति गृहाण । अत एव सम्यग्दर्शनादिजन्यविवेकाभावादनाभोगतोऽपि “सदन्ध०" न्यायेन मार्गागमनमेवाऽस्य' इति वदन्ति । विभावनीयं चेदं "सुप्त-मण्डितप्रबोध-दर्शन" न्यायेनेति दिग् ॥१०॥ ननु सुखार्थितानियता प्रेक्षावत्प्रवृत्तिर्धर्म एवेति कुतो नियम्यते, सक्-चन्दना-ऽङ्गनाभापादीनामपि सुखोपायत्वात् तत्रापि प्रवृत्तेायप्राप्तत्वात् ? । अत आहउपादेयश्च संसारे धर्म एव बुधैः सदा । विशुद्धो मुक्तये,सर्व यतोऽन्यद् दुःखकारणम्॥११॥ १ धर्महेतुनिर्वाहाधिकारिणः । २ जानीहि । ३ क. 'गंग' । ४ सप्तम्यन्तं पदम् । ५ क. 'नादी' । सक्-चन्दना-जानाभाषादी। मानचयात् । तदुक्तम् । अत एव सम्यग्दर्शनादत एतत्पयन एवाऽस्य SOLorial www.jainelibrary.org Jain Educatio n For Private & Personal Use Only al
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy