________________
शास्त्रवार्ता
॥ ६॥
आत्मीयग्रहमोक्षव्यापारमाह
अशेषदोषजननी निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्तते ॥ ९ ॥
अशेषाणां दोषाणां हिंसा -ऽनृतादीनां जननीव मातेव तृष्णायां सत्यां सकलदोषाणामवश्यंभावात् तदुक्तम्- "लोभमूलानि पापानि ” इति । तथा, निःशेषाणां गुणानामुपशमादीनां घातिनी, सतां विनाशात् असतां चोत्पत्तिप्रतिबन्धात् । आत्मीयग्रहमोक्षेण वाह्यसङ्गत्यागेन, तृष्णापि लोभवासनापि, विनिवर्तते विषयसङ्गरूपोद्बोधकाभावादनुत्थानोपहता सती प्रतिपक्षपरिणामाभ्यासेन क्षीयत इति यावत् ॥ ९ ॥
अतिदेशमाह
एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य साधकः १०
एवंप्रकारैर्गुणगणैरुपेतः सहितः, विशुद्धात्माऽत्यन्ताऽपाय हेतुकुग्रहमलरहितः, स्थिरचित्तो नास्तिक्याऽनुपहतचित्तःध्यवसायः, तत्वविद्भिः, सम्यग् - आगमोक्तविधिना, धर्मस्य साधको धर्महेतुनिर्वाहाधिकारी, समाख्यातः । एवंविधस्याऽऽदित एव मार्गानुसारिप्रवृत्त्युपलम्भात्, तदर्थमेवाऽऽदिकर्मविध्युपदेशाच्च । तदुक्तं ललितविस्तरायां ग्रन्थकृतैव- " तत्सिद्धयर्थे तु यतितव्यमादिकर्मणि, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ कर्तव्योदारपूजा भगवताम्, निरूपणीयः
Jain Education International
For Private & Personal Use Only
सटीकः ।
॥६॥
www.jainelibrary.org