SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ H ERAPPRECIATE साधुसेवाव्यापारमाह| उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम्।स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥७॥ नित्यं निरन्तरं, शुभो निःश्रेयसाऽभ्युदयहेतुः, उपदेशो मौनीन्द्रप्रवचनप्रतिपादनरूपः, भवजलधियानपात्रप्रायः खल्वयम् , अस्य श्रवणमात्रादेव समीहितसिद्धः, सुतरां च तदर्थज्ञानात् । तथा, धर्मचारिणामुद्यतविहारपरायणानां साधूनां, दर्शनं मुखारविन्दविलोकनम् । एतदपि परमबोधिलाभहेतुः, ततः क्लिष्टकर्मविगमात् । तथा, स्थाने शास्त्रोक्तस्थले, विनयः कर-शिरःसंयोगविशेषाद्यभिव्यङ्गयो मानसः परिणामविशेषः । इत्येतत् साधुसेवाफलं महद् धर्माङ्गसाधनम् , उपदेशादिना चारित्रपतिबन्धककर्मक्षयोपशमादिना चारित्रधर्माऽवाप्तेः॥७॥ मैत्रीव्यापारमाहमैत्री भावयतो नित्यं शुभो भावःप्रजायते। ततो भावोदकाज्जन्तोषाग्निरुपशाम्यति । मैत्रीमिति । मैत्रीमुक्तलक्षणां, नित्यं सर्वकालं, भावयतोऽभ्यस्यतः, शुभः प्रशस्तः, भावः साम्यलक्षणो जायते, यमन्ये 'प्रशान्तवाहिता' इत्याचक्षते । ततस्तस्मात्, भावरूपादुदकात्, द्वेषलक्षणोऽग्निः, उपशाम्यति समूलमपयाति । एवं च शुद्धोपयोगलक्षणधर्मे साम्य-द्वेषोपशमद्वारा मैत्र्युपयुज्यत इति फलितम् ॥ ८॥ १ पातालमतानुयायिनः । २ योगदर्शने विभूतिपादे दशमे सूत्रे । साधुसवाफलं महद स्थान शास्त्रोक्तस्थान साधना Jain Education in o ona For Private & Personel Use Only ENTww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy