SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ on सटीकः। ॥५ ॥ शाखबातो "धर्मस्य फलमिच्छन्ति धर्म नेच्छन्ति मानवाः । फलं नेच्छन्ति पापस्य पापं कुर्वन्ति सादराः"॥१॥ इति । उक्तहेतुषु प्रवृत्या च, अहिंसादिनाऽविरतेः, सम्यग्दर्शनेन च मिथ्यात्वस्य, क्षमादिनाच क्रोधादीनां निवृत्तस्तन्मूलकदुःखविरहादनिवारितः सुखावकाशः । 'अहिंसया क्षमया क्रोधस्य, ब्रह्मचर्येण वस्तुविचारेण कामस्य, अस्तेया-ऽपरिग्रहरूपेण संतोषेण लोभस्य, सत्येन यथार्थज्ञानरूपेण विवकेन मोहस्य, तन्मूलानां च सर्वेषां निवृत्तिः' इति तु पातञ्जलमतानुसारिणः। तत्रेदं विभावनीयम्- अहिंसादिना मूलगुणघातिक्रोधादिनिवृत्तावपि, संज्वलनादिरूपक्रोधादिनिवृत्तिः क्षमाद्युत्तरगुणसाम्राज्यादेव ॥ ५॥ अहिंसादिसंपत्तिनिमित्तमेवाऽऽहसाधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः। आत्मीयग्रहमोक्षश्चधर्महेतुप्रसाधनम्॥६॥ सदा सर्वकालम् , भक्त्या बहुमानेन, साधुसेवा ज्ञानादिगुणवृद्धोपासना, भावतो निश्चयतः, सत्त्वेषु माणिषु, मैत्री प्रत्युपकारनिरपेक्षा प्रीतिः । आत्मीयग्रहस्य ममत्वपरिणामस्य मोक्षः परित्यागो यस्माद् बाह्यसङ्गत्याग इत्यर्थः। स च धर्महेतूनामहिंसादीनां प्रकृष्टं फलाऽयोगव्यवच्छिन्नं साधनम् । अत्र 'प्रसाधनम्' इत्येकवचनेन खे-तरसकलकारणनियतत्वं व्यज्यते ॥६॥ हिंसादिमूलानाम् । २ व्रत-श्रमणधर्मादयो मूलगुणाः । ३ परीषहाद्युपनिपाते संयमिनमपि सम् ईषज्ज्वलयन्तीति व्युत्पत्तेविशिष्ट्राः कोधादयः संज्वHOलनशब्देन समये परिभाष्यन्ते । ॥५ ॥ Jain Education inte For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy