________________
प्रमादयोगेन प्राणव्यपरोपणं हिंसा, धर्मविरुद्धं वचनमनृतम् ; आदिपदाद् धर्मविरोधेन स्वामि-जीवाद्यननुज्ञातपरकीयद्रव्यग्रहणमदत्तादानम् , स्त्री-पुंसव्यतिकरलक्षणमब्रह्म, सर्वभावेषु मृ लक्षणः परिग्रहश्च परिगृह्यते । अत्र च "आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्" इति वदन्ति, तत्ख्यापनं च प्रभृति-प्रधानार्थकयोरादिशब्दयोः कृतैकशेषयोबलादेवेति प्रतिभाति | "आये परोक्षम् " (तत्त्वार्थ० १-११) इत्यत्रेवोत्तरत्रयापेक्षमत्राऽऽद्यत्वामित्याक्षेपादेवाऽनृतस्य प्राधान्यं लभ्यत इत्यपरे । एते पञ्चाऽविरतिरूपाः। तत्त्वस्य यथास्थितवस्तुनोऽश्रद्धानं यस्मादिति बहुव्रीह्याश्रयणात् तत्वाऽश्रद्धानं मिथ्यात्वम् । एवकारः प्रसिद्धयर्थः। चः पुनरर्थः। क्रोधादयः- क्रोध-मान-माया लोभाश्च चत्वारः, इति-एतावन्तः, योगानां साधारण्येनाऽग्रहणात् , विषय-प्रमादा-ऽऽत रौद्रादीनां चात्रैवाऽन्तर्भावात् , इति- एवंप्रकारा वा; पापस्याऽशुभकर्मणः, हेतवः कारणानि ॥४॥ विपरीतास्तु धर्मस्य एत एवोदिता बुधैः। एतेषु सततं यत्नः सम्यक् कार्यः सुखैषिणा॥५॥
विपरीतास्तु- अहिंसा-सत्या-ऽस्तेय ब्रह्मा-ऽपरिग्रह सम्यग्दर्शन-क्षान्ति-मार्दवा-उजवा-ऽनीहारूपाः, तुर्विशेषणे, एत | एव बुधैरहवचनानुसारिगीताथैः, धर्मस्य गुणाः शुभाशयलक्षणस्य हेतव उदिताः । अत एतेषु धर्महेतुषु, सततं निरन्तरं,
सुखैषिणा कल्याणकामेन, सम्यग् विधिना, यत्नः कार्यः, सुखोपाये प्रवृत्तरेव सुखोत्पत्तेः । स्वभावतः सुख-दुःखेच्छा-द्वेषव| तामपि प्राणिनां सुखोपाये धर्मऽनिच्छा, दुःखोपाये चाऽधर्म एवेच्छा खलु मोहमहाराजनिदेशविलसितम् । तदुक्तम्
आदिना तीर्थङ्कर-गुर्वाग्रह । २ हरिभद्रपादाः स्वविवरणे इति शेषः । ३ स्तेया-ऽब्रह्म-परिग्रहाणां त्रयमपेक्षते यत्तत्। ४ सुखेच्छावतां दुःखद्वेषवतां चेत्यर्थः ।
Jain Education Int
a
For Private & Personel Use Only
REnwww.jainelibrary.org