SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता118 11 सिद्धिः, द्वित्वेनोपस्थितयोः प्रिया-प्रिययोः प्रत्येकं निषेधान्वयादिति । तदसत् प्रिया-प्रियोभयत्वावच्छिन्नाऽभावस्यैवाsa विषयत्वात्, द्वित्वस्याऽऽख्यातार्थाऽन्विताऽभावप्रतियोगिगामितयैवोपपत्तेः उपपादितं चैतदन्यत्र । न चेदेवम्, “सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः " ॥ १ ॥ इत्यादिवचनविरोधः । न च शरीरादिकं विना सुखाद्यनुत्पत्तिर्वाधिका, शरीरादेर्जन्यात्म विशेषगुणत्वावच्छिन्नं प्रत्येव हेतुत्वात्, तत्र च जन्यत्वस्य ध्वंसप्रतियोगित्वरूपस्येश्वरज्ञानादेरिव मुक्तिकालीनज्ञानात् सुखादेरपि व्यावृत्तत्वादिति । अधिकं मत्कृतन्यायालोकादव सेयम्, वक्ष्यते चावशिष्टमुपरिष्टात् ॥ २ ॥ वक्तव्ये शास्त्रवार्तासमुच्चये पूर्व सर्वविप्रतिपत्यविषयां शास्त्रवार्तामाह दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः । न कर्तव्यमतः पापं कर्तव्यो धर्मसंचयः ॥३॥ पापादधर्मात्, दुःखं भवति, धर्मात् सुखं भवति इयं सर्वशास्त्रेषु समीचीना- अविप्रतिपत्तिविषया स्थितिर्मर्यादा । अतो दुःखहेतुतया पापम् - अशुभकर्महेतु, न कर्तव्यम्, सुखहेतुतया संचितोऽङ्गवैकल्यादिविरहितो धर्मः कर्तव्यः ॥ ३ ॥ शुभाशुभहेतूनां कर्तव्या कर्तव्यत्वमुक्तम्, अथ तद्धेतूने वाह - "पाप-धर्महेतुपरिहारा -ऽऽसेवनाभ्यां तदकरणादि, इति तद्धेतूनाह" इत्यपरे । हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥४॥ 3 पापहेतु-धर्महेत्वोः क्रमेण परिहारा ऽऽसेवनयोरन्वयः । २ तस्य पापहेतोरकरणम्, आदिना धर्मकारणस्य करणम् । Jain Education International For Private & Personal Use Only सटीकः । 118 11 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy