SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ | स्यात , सिद्धार्थत्वेनाप्रामाण्यं चोभयत्र तुल्यमिति चेत् । अत्रोच्यते- प्रेक्षावत्मवृत्त्यन्यथानुपपत्तिरेव सिद्धिसुखे मानम् । न च क्षुदादिदुःखनिवृत्यर्थमन्नपानादिप्रवृत्तिवदंत्रोपपत्तिः, तत्रापि सुखार्थमेव प्रवृत्तेः, अन्यथाऽस्वादुपरित्याग-स्वादूपादानानुपपत्तेः, अभावे विशेषाभावेन कारणविशेषस्यायोजकत्वात् । न च चिकित्सास्थलीयप्रवृत्तिवदुपपत्तिः, तत्रापि दुःखध्वंसनियतागामिसुखार्थितयैव प्रवृत्तेः । न च प्रायश्चित्तवदत्र दुःख द्वेषयोरनिष्टेरेव प्रवृत्तिरिति वाच्यम् , तत्राप्यभिमताऽऽगामियोधिहेतुककर्मक्षयार्थितयैव प्रवृत्तेः । किञ्च, दुःखाभावदशायां 'सुखं नास्ति' इति ज्ञाने कथं प्रवृत्तिः, सुखहानेरनिष्टत्वात् । न च वैराग्याद् न तदनिष्टत्वप्रतिसंधानम् , विरक्तानामपि प्रशमप्रभवसुखस्येष्टत्वात् , अनुभवसिद्धं खल्वेतत् । किञ्च, दुःखे । द्वेषमात्रादेव यदि तन्नाशानुकूलः प्रयत्नः स्यात् तदा मूर्छादावपि प्रवृत्तिः स्यात् । जायत एव बहुदुःखग्रस्तानां मरणादावपि प्रवृत्तिरिति चेत् । न, विवेकिमवृत्तेरेवावाऽधिकृतत्वात् । अतः सुष्ट्रच्यते "दुःखाभावोऽपि नाऽऽवेद्यः पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः" ॥१॥ इति । 'दुःखं मा भूत' इत्युद्दिश्य प्रवृत्तेर्दुःखाभाव एव पुरुषार्थः, तज्ज्ञानं त्वन्यथासिद्धमिति चेत् । सत्यम् , अवेद्यस्य तस्य ज्ञानादिहानिरूपाऽनिष्टानुविद्धतया प्रवृत्यनिर्वाहकत्वात् । एतेन 'वर्तमानोऽप्यचिरमनुभूयते' इति निरस्तम् , तथावे. | बताया मूर्छाद्यवस्थायामपि संभवात् । यत्तु "अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इति श्रुतेर्मुक्तौ सुखाभाव 1 प्रेक्षावत्प्रवृत्तौ । २ क्षुदादेरिति गम्यम् । ३ अभिमतो य आगामी बोधिहेतुकः कर्मक्षयस्तत्प्रयोजनतया, बोधिशब्दश्च समयपरिभाषया तत्त्वाथश्रद्धानवाचकः । ४ दुःखाभावस्य । ५ दुःखाभावविशेषणम् । Jain Education a nal For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy