SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो PriAPSOत्रा सटीकः। Secome निश्चयस्तु तदर्थप्रवृत्तिप्रतिपक्षतयैव, द्वेषस्तु माध्यस्थ्यप्रतिबन्धादेव नोदेति, इति न कोऽपि दोषानुषङ्गः, प्रत्युत दान-संयमादी शुद्धप्रवृत्त्या स्वर्ग-सिद्धिसुखावह एव सः॥ . अत्र कश्चिदाह- ननु 'स्वर्गे सुखम्' इत्यत्र न विप्रतिपत्तिरस्ति, सिद्धौ तु सुखे न मानमस्ति, सुखत्वावच्छेद धमेजन्यत्वावधारणात् । न च विजातीयादृष्टानां विजातीयसुखहेतुत्वात , तत्सत्कर्मणामेवादृष्टरूपव्यापारसंबन्धेन तद्धेतुत्वाई वा सामान्यतो हेतुत्वे मानाभाव इति वाच्यम् , तथापि विशेषसामग्रीविरहेण मोक्षसुखानुत्पत्तेः । न च “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुतिरेवाऽत्र मानम् । न च नित्यसुखे सिद्ध ब्रह्माभेदबोधनम् , तद्बोधने च नित्यसुखसिद्धिरिति परस्पराश्रय इति वाच्यम् । स्वर्गत्वमुपलक्षणीकृत्य स्वर्गविशेषे यागकारणताबोधवत् सुखत्वमुपलक्षणीकृत्य सुखविशेषे ब्रह्माभेदोपपत्तेः । यद्वा, नित्यं सुखं बोधयित्वा तत्र ब्रह्माभेदो विधिनैव बोध्यते न च वाक्यभेदः, वाक्यैकवाक्यत्वात् । न च 'आनन्दम्' इत्यत्र नपुंसकलिङ्गत्वानुपपत्तिः, छान्दसत्वात् । न च "आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्" इति भेदपरषष्ठचनुपपत्तिः, 'राहोः शिरः' इतिवदभेदेऽपि षष्ठीदर्शनात् : इति वाच्यम् ; आत्मनोऽनुभूयमानत्वेन नित्यसुखस्याऽप्यनुभवप्रसङ्गात् , सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात् । न चात्माऽभिन्नतया सुखमनुभूयत एव, सुखत्वं तु तत्र नाऽनुभूयते, देहात्माऽभेदभ्रमवासनादोषात् , आत्यन्तिकदुःखोच्छेदरूपव्यञ्जकाभावाद् वेति वाच्यम् , आत्मसुखयोरभेदे सुखत्वस्याऽऽत्मत्वतुल्यव्यक्तिकत्वेनाऽऽत्मत्वाऽन्यजातित्वासिद्धेः । किञ्च, एवं सर्वाभेदश्रुत्या दुःखमपि सुखं 1 तत्वविनिश्चयः। २ इत आरभ्य विहितविक्षिप्तावान्तरपूर्वपक्षः “षष्ठीदर्शनात् " इत्येतत्पर्यन्तो मुक्तिसुखस्थापनापरः पूर्वपक्षः । ॥ ३ ॥ Jain Education Intel For Private & Personel Use Only hirwwjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy