________________
Jain Education In
प्रवादास्तासां समुच्चयमेकत्र संकलनम्, “कदभिहित ०" न्यायाश्रयणात् समुच्चिताः शास्त्रवार्ता इत्यर्थः, ता वक्ष्याम्यभिधास्यैः नाsतो द्वितीयार्थाऽन्वयः, द्रव्यपरकृदयान्वितस्यैव तदुत्तरपदार्थेऽन्वयात् प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्व नियमस्य " तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः " ( न्यायसू० ४ । १ । ६ ) इत्यादावेव दूषितत्वात्; " पाणिपादं वादय" इत्यत्र पाणिपादसमाहारस्येवात्र समुच्चयस्य स्वाश्रयनिरूपितत्व संबन्धेनाऽन्वयस्त्वनुभवाऽनुपारूढत्वाद् न कल्प्यत इति दिग् । अत्राssयपदेन मङ्गलं निबद्धम्, मङ्गलेन स्वशास्त्रसिद्धावपि तन्निबन्धेन श्रोतॄणामनुषङ्गतोऽपि मङ्गलोपपत्तेः । शास्त्रवार्तासंग्रह थाभिधेयतयोक्तः ॥ १ ॥
अवान्तरप्रयोजनमप्यत्र यद्यपि सामान्यतोऽल्पबुद्धिहितमुक्तमेव, तथापि विशेषप्रयोजनानुबन्धितया नामग्राहं तन्नि देष्टुं प्रकृतग्रन्थमभिष्टौति
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमनः स्वर्ग -सिद्धिसुखावहः ॥२॥ यमिति । यं श्रुत्वा तात्पर्यतः परिज्ञाय, सर्वशास्त्रेषु सकलदर्शनेषु, प्रायो बाहुल्येन तत्त्वविनिश्चयः प्रामाण्या मामाण्यविवेको जायते । नन्वेव मितरदर्शनेष्वप्रामाण्यज्ञानात् तत्राऽनिष्टसाधनत्वज्ञाने द्वेषोदयात् संसारानुबन्ध्येव बहुशास्त्रज्ञानमा तितम् इत्यत आह- द्वेषशमन इति । प्रामाण्यनिश्चय उपादेयेऽर्थे निष्कम्पमवृत्तिजनकतयैवोपयुज्यते, इतरत्राप्रामाण्य १" कृदभिहितो भावो द्रव्यवत् प्रकाशते " । २ प्रत्ययार्थः । ३ अनुपादेयेऽर्थे ।
For Private & Personal Use Only
www.jainelibrary.org