________________
शास्त्रवार्ता
सटीकः ।
FoTooooo
॥२॥
तदिदमुक्तमाकरे- "स्वाध्यायादेरपि मालत्वाविरोधात्" इति । तथापि नानेन रूपेण हेतुत्वम् , आत्माश्रयात्, किन्तु नति- त्वादिना प्रातिस्विकरूपेणैव, इति व्यभिचार एवेति चेत् । न, नत्याद्यभिव्यङ्ग्यभावविशेषस्यैव निश्चयतो दुरितक्षयहेतुत्वात्। निकाचितकर्मणश्चाऽनपवर्तनीयत्वाद् न बलवतो विघ्नस्य नाशः; वस्तुतः शब्दाद्यात्मकनत्यादीनामपि खाव्यवहितोत्तरविघ्नध्वंसहेतुत्वाद् न कोऽपि दोष इति सर्वमवदातम् ॥ परे तु- विघ्नध्वंस-तत्यागभावपरिपालन-समाप्तिपचयगमन-शिष्टाचारपरिपालनानां सर्वेषामेवाऽविनिगमाद् मङ्गलफलत्वम् , तत्तकामनया शिष्टाचारेण तत्तत्फलकत्वोन्नयनात् "अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात्" (जैमि० १।३।१५) इति न्यायेन यथाचारमेव श्रुतिकल्पनात् । न चैकमङ्गलप्रयोगादनेकफलापत्तिः, अनेकफलबोधकश्रुतावुद्देश्यसाहित्याविवक्षणात्; अन्यथा “सर्वेभ्यो दर्श-पूर्णमासौ" इत्यत्रापि तत्प्रसङ्गात् , कादम्बर्यादौ समाप्तिकामनया मङ्गलाचारे मानाभावाद् न दोष इत्याहुः ॥ अनेकफलकात् कर्मण उद्देश्या-ऽनुदेश्य-प्रधाना-प्रधानबहुविधफलदशनाद् नैतद् युक्तमित्यपरे ॥ स्वतो मङ्गलभूत एव शास्त्रे शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलाचरणम् , अन्यथा मङ्गलवाक्यस्य शास्त्रबाहि वे वाक्यान्तराणामप्यविशेषाच्छास्त्रबहिर्भावप्रसङ्गे शास्त्रस्य चरमवर्णमात्रपर्यवसानप्रसङ्गात्, इति तु भाष्यकाराभिप्रायः। तत्त्वमत्रत्यं मत्कृतमङ्गलवादादवसेयम् । तस्मात् सफलं मङ्गलम्, इति युक्तं तदाचरणं ग्रन्थकारस्येति ॥
___ अथाक्षरार्थ उच्यते- परमः क्षीणघातिकर्मा य आत्मा तं, प्रणम्य भक्ति-श्रद्धातिशयेन नत्वा, अल्पबुद्धीनामसंकलिततत्तच्छास्त्रार्थग्रहणाऽपवणमतीनां सत्चाना, हितकाम्ययाऽनुग्रहेच्छया, शास्त्राणां बौद्ध-वैशेषिकादिदर्शनानां या वार्ताः सिद्धान्त
स्वस्मिन् स्वापेक्षकत्वमात्मानयत्वम् । २ फलसंयुक्तम् । ३ "सीसमइमंगलपरिग्गहत्यमेत्तं तदभिहाणं' (गाथा २०) इत्यादिविशेषावश्यकभाष्यात् ।
SOIDIOS
an interna
For Private Personal use only