SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 'निर्विघ्नं परिसमाप्यतां ' इति कामनापि "सेविशेषणे हि०" इति न्यायाद् विघ्नध्वंसमात्रावगाहिनी; इत्यपि मतं न रमणीयम्, मङ्गलं विनापि विघ्नध्वंसस्य प्रायश्चित्तादितो भावेन व्यभिचारात् । न च प्रायश्चित्ताद्यनाश्यविघ्नध्वंसे मङ्गलं हेतुरतो न दोष इति वाच्यम्; प्रायश्चित्तादीनामपि मङ्गलाद्यनाश्यविघ्नध्वंसं प्रति हेतुत्वेऽन्योन्याश्रयात् । 'विघ्नो मा भूत्' इति कामनया वृत्तेर्विप्रागभाव एवं मङ्गलफलमित्यपि न पेशलं वचनम्, प्रागभावस्यासाध्यत्वात् स्वत आगन्तुकस्य समयविशेषस्य संबन्धरूपस्य तत्परिपालनस्यापि मङ्गलासाध्यत्वात् । शिष्टाचारपरिपालनं मङ्गलफलमित्यपि वार्तम्, तत्परिपालनस्याऽदृष्टद्वाराभीप्सितसिद्धिहेतुत्वे मङ्गलस्यैवादृष्टार्थत्वौचित्यात्, विघ्नमविनाश्य धैर्मविशेषस्य समाप्त्यहेतुत्वे विघ्ननाशस्यैवाऽवश्यक त्वाच्च । किञ्च, शिष्टाचारेण विधिवोधितकर्तव्यत्वमनुमाय मङ्गले प्रवृत्तिरेव तत्परिपालनम्, न सौ तत्फलम्, किन्तु तज्जनिकेति । न चाचारप्राप्तातिलङ्घने प्रत्यवायस्मरणात् प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशङ्कानिरास एवं तत्फलं तत्परिपालनमिति वाच्यम्, तादृशशङ्कायाः शिष्यावधानप्रतिपक्षत्वेऽपि समाप्त्यप्रतिपक्षत्वात्, 'कामनाविशेषनियतकर्तव्य ताकस्य मङ्गलस्य तदभाdarकरणेsपि न प्रत्यवायः' इति विशेषदर्शनेन तच्छङ्कानिवृत्तेश्व । तस्माद् मङ्गलं निष्फलमिति चेत् ॥ अत्रोच्यतेविघ्नध्वंस एव मंङ्गलं हेतुः न चोक्तव्यभिचारः, प्रायश्चित्तादीनामपि मङ्गलत्वात् ; 'प्रारिप्सितप्रतिबन्धकदुरितनिवृन्यसाधारणकारणं मङ्गलम्' इति हि तल्लक्षणं परैर्गीयते, तत्र चाऽस्माभिर्लाघवात् 'प्रारिप्सितप्रतिबन्धक -' इति विशेषणं त्यज्यत इति । १ "सविशेषणे हि विधि-निषेधः विशेषणमुपक्रामतो विशेष्याबाधके सति" इत्येवंरूपात् । २ स्वस्मिन्नम्यापेक्षकत्वे सति तस्मिन् स्वापेक्षकत्वमन्योन्याश्रयत्वम् । ३ शिष्टाचारपरिपालनरूपस्य । १ शिष्टाचारपरिपालनम् । ५ प्रवृत्तिः । ६ मङ्गलफलम् । ७ क. 'व तत्प' ८ कामनाविशेषाभावेन । ९ क. 'ल' । national For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy