SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। ॥१॥ PREDICATIOBAAR हारिभद्रं वचः केदं बहुतर्कपचेलिमम् ? । क चाई शास्त्रलेशज्ञस्तादृक्तन्त्राऽविशारदः ॥३॥ श्रमो ममोचितो भावी तथाप्येष शुभाऽऽयतिः। अहन्मतानुरागेण, मेघेनेव कृषिस्थितिः ॥ ४॥ इह खलु निखिलं जगदज्ञानध्वान्तनिरस्ताऽऽलोकमवलोकमानस्तदुपचिकीर्षुभंगवान् हरिभद्रमूरिः प्रकरणमिदमारब्धवान् । तत्राऽऽदौ पारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरन् प्रेक्षावत्प्रवृत्तयेऽभिधेयमाहप्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया । सत्त्वानामल्पबुद्धीनां शास्त्रवार्तासमुच्चयम् ॥१॥ प्रणम्येति । अथ समाप्तिमात्रे मङ्गलं न हेतुः, कादम्बरी-नास्तिकानुष्ठितयोरन्वय-व्यतिरेकाभ्यां व्यभिचारात् । न च स्वसमसंख्यविघ्नस्थलीयसमाप्तौ मङ्गलं हेतुः, नास्तिकानुष्ठितस्थले च जन्मान्तरीयमङ्गलादेव च समाप्तिरिति वाच्यम् । विघ्नाधिकसंख्यमङ्गलस्थले समाप्त्यभावप्रसङ्गात् । न च स्वानधिक-न्यूनसंख्यविघ्नस्थलीयत्वं निवेश्यम् । यत्र दश विघ्नाः, पञ्च च प्रायश्चित्तेन नाशिताः, पश्च च मङ्गलानि, तत्र समाप्त्यभावप्रसङ्गात् । न च प्रायश्चित्ताद्यनाश्यस्वानधिकसंख्यविघ्नस्थलीयत्वं निवेश्यम् । बलवतो विघ्नस्य बहुभिरपि मङ्गलैरनाशात् , बलवता मङ्गलेन बहूनामपि विघ्नानां नाशाच । किश्च, विघ्नः समाप्तौ विशेषणम् , उपलक्षणं वा । नाद्यः, विघ्नस्यापि जन्यत्वापत्तेः । नाऽन्त्यः, नियतोपलक्ष्यतावच्छेदकाभावादिति दिक् । आवश्यकत्वाद् विघ्नध्वंस एव मङ्गलफलम् , समाप्तिस्त्वसति प्रतिबन्धे स्वकारणादेव भवति, कारीरीत इवाऽवग्रहनिवृत्तौ दृष्टिः, HO कादम्बयाँ सत्यपि मङ्गले समाप्यभावात्, नास्तिकानुष्ठिते च मङ्गलाभावेऽपि समाप्तिदर्शनादित्यर्थः । २ नियतोपलक्ष्यतावच्छेदकत्वादुपलक्षणलक्षणस्येत्यर्थः । ॥१॥ Jain Education Intel For Private & Personel Use Only Riww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy