________________
सापरामटSEASE
तथाहि- यदि सच्चमनूद्य घटत्वं विधीयते, तदा सत्त्वस्य घटत्वेन व्याघटस्य सर्वगतत्वप्रसङ्गः, तथाभ्युपगमे प्रतिभासवाधा व्यवहारविलोपश्च । तथाऽसत्त्वमनूध यदि घटत्वं विधीयते तदा प्रागभावादेश्चतुर्विधस्यापि घटत्वेन व्याप्तेर्घटत्वप्रसङ्गः। अथ घटत्वमनूद्य सदसच्चे विधीयेते, तदा घरत्वं यत् तदेव सदसत्त्वे इति घटमात्रं सदसच्चे प्रसज्येते, तथाच पटादीनां मागभावादीनां चाभावप्रसक्तिः । इति प्राक्तनन्यायेन विशेषगविशेष्यलोपात् 'सन् घटः' इत्येवमवक्तव्यः, 'असन् घट:' | इत्येवमप्यवक्तव्यः स्यात् । अनेकान्तपक्षे तु कथंचिदवान्य इति न कश्चिद् दोषः। .
यद्वा, घटोऽर्थपर्यायः स्वान्यत्रावृत्तेः खं रूपं, 'घटः' इति नाम व्यञ्जनपर्यायस्तदतद्विपयत्वात् पररूपम् , ताभ्यां प्रथम-द्वितीयौ । अभेदेन ताभ्यां निर्देशेऽवक्तव्यः, यतोवापि यदि व्यञ्जनमनूय घटार्थपर्यायविधिः, तदा तस्याशेषघटात्मकतासक्तिः, इति भेदनिबन्धनतद्व्यवहारविलोपः। अथार्थपर्यायमनूच व्यञ्जनपर्यायविधिः, तथापि सिद्धविशेषानुवादेन घटत्वसामान्यस्य विधानादकार्यत्वादिप्रसङ्ग इति घटस्याभावादवाच्यः । अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवाच्यः । यद्वा, सत्त्वमर्थान्तररूपं, तस्य विशेषयदेकत्वादनन्वयिरूपता, अत एव न तद् वाच्यम् , अन्त्यविशेषवत् । अन्त्यविशेषस्तु खं रूपं सोऽप्यवाच्यः, अनन्वयात् । प्रत्येकावक्तव्याभ्यो ताभ्यामादिष्टो घटोऽवक्तव्यः । अनेकान्ते तु कथश्चित् तथा।
___अथवा, संद्रुतरूपाः सत्यादयो घर इत्यत्र दर्शने सत्त्वादयः पररूपं, संद्रुतरूपं खं, ताभ्यामादिष्टो घटोऽवक्तव्यः, यतः संद्रुतरूपस्य सत्त्व-रज-तमस्तु सच्चे सत्व-रज-तमसामभावप्रसक्तिः, तेषां परस्परचैलक्षण्येनैव सत्त्वादित्वात् , संद्रुतरूपत्वे च वैलक्षण्याभावादभाव इति विशेष्याभावादवाच्यः । असत्त्वे चासत्कार्योत्पादप्रसङ्गः । न चैतदभ्युपगम्यते । अभ्यु
Jain Education
t
o
For Private & Personel Use Only
www.jainelibrary.org