________________
सटीकः । स्तवकः । ॥ ७॥
शास्त्रवातो- हस्तृतीयः। यदीन्द्रियान्तरजप्रतिपत्तिविषयत्वेनापि घटः स्यात् , इन्द्रियसंकरः स्यात् । यदि च चक्षुर्जप्रतिपत्तिविषयत्वेनापि न समुच्चयः घटः, तर्हि तस्यारूपत्वप्रसक्तिः । एकान्तपक्षेऽप्ययमेव दोष इत्यसत्त्वादवाच्यः । अथवा, दृश्यमान एव घटे घटशब्दवाच्यता ॥२५॥
खं रूपम् , कुटशब्दाभिधेयत्वं पररूपम् , ताभ्यां सदसवात् प्रथम-द्वितीयौ । युगपत्ताभ्यामर्पितोऽवाच्यः । यदि हि घटशब्दवाच्यत्वेनेव कुटशब्दवाच्यत्वेनापि घटः स्यात् , तर्हि त्रिजगत एकशब्दवाच्यताप्रसक्तिः, घटस्य वाऽशेषपटादिशब्दवाच्यत्वप्रसक्तिः, घटशब्दवाच्यतापतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च । घटपदेनापि यद्यवाच्यः स्यात् , तदा घटशब्दोच्चारपवैयर्थ्यप्रसक्तिः । एकान्ताभ्युपगमेऽपि घटस्यैवासत्त्वात् तद्वाचकशब्दसंकेताभावादवाच्य एव ।
अथवा, घटशब्दाभिधेये तत्रैव घटे हेयोपादेया-ऽन्तरङ्गबहिरङ्गो-पयोगानुपयोगरूपतया सदसचात् प्रथम-द्वितीयौ । Ho ताभ्यां युगपदादिष्टोऽवाच्यः । यदि हि हेयादिरूपेणाप्यर्थक्रियाक्षमादिरूपेणैव घटः स्यात् , पटादीनामपि घटत्वप्रसक्तिः ।
यदि चोपादेयादिरूपेणाप्यघटः स्यात् , अन्तरङ्गत्य वक्त-श्रोतगतहेतु फलभूनघटाकारावबोधकविकल्पोपयोगस्याप्यभावे घटस्याभावः । एकान्ताभ्युपगमेऽयमैव दोष इत्यवाच्यः । अथवा, तत्रैवोपयोगेऽभिमतार्थावबोधकत्वा-नभिम तार्थानवबोधकत्वतः सदसत्त्वात् प्रथम-द्वितीयौ । ताभ्यां युगपदादिष्टोऽवाच्यः । विवक्षितार्थप्रतिपादकत्वेनेवेतररूपेणापि यदि घटः स्यात् , तदा प्रतिनियतोपयोगानुपपत्तिः, एवं च विविक्तरूपोपयोगप्रतिपत्तिनं भवेत् । तदुपयोगपतिनियतरूपेणापि यद्यघटः स्यात् तदा सर्वाभावोऽविशेषप्रसङ्गो वा, न चैवम, तथापतीतेः । एकान्तपक्षेऽप्ययमेव प्रसङ्ग इत्यवाच्यः ।
अथवा, घटत्वं स्खं रूपं सचम् , असचं च पररूपे, ताभ्यां प्रथम-द्वितीयौ । अभेदेन ताभ्यां निर्दिष्टो घटोऽवक्तव्यः;
॥२५॥
For Private
Personel Use Only