SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ वाच्यः । यद्यविधित्सितरूपेणापि घटः स्यात् तदा प्रतिनियतनामादिभेदभावपसरले विधिसित स्यापि नात्मलाभ इति सर्वाभाव एव भवेत् । यदि च विधित्सितप्रकारेणाप्यस्टः स्यात् तदा तन्निबन्धनव्यवहादिप्रसक्तिरेव । एकान्ताभ्युपगमे च तथाभूतार्थस्यामामाणिकत्वादवाच्यः । अथवा, खाकृतप्रतिनियतप्रकारे तत्रैव नामादिकं यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघटः, इति प्रथम द्वितीयौ। ताभ्यां युगपदभिधातुपशक्तरवाच्यः । विवक्षितसंस्थानादिनेव | यदीतरेणापि घट स्यात् ,एकस्य सर्वघटात्मकत्वासक्तिः, अ(प्र?)य विवक्षितेनाप्यघटः,पटादाविव घटार्थिनस्तत्राप्यप्रवृत्तिप्रसक्तिः। एकान्तपक्षेऽप्ययमेव दोष इत्यसत्त्वादवाच्यः। अथवा, स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्था खं रूपम् , कुशूल-कपालादिलक्षणे पूर्वोत्तरावस्थे पररूपम् , ताभ्यां सदसत्त्वात् प्रथम-द्वितीयौ । युगपत्ताभ्यामभिधातुमसामर्थ्यात् तृतीयः । मध्यावस्थावदितरावस्थाभ्यामपि यदि घटः स्यात् , तस्यानाद्यनन्तत्वप्रसक्तिस्तदा स्यात् । यदि च मध्यावस्थारूपेणाप्यघटस्तदा सर्वदा घटाभावापत्तिः। एकान्तपक्षेऽप्ययमेव प्रसङ्ग इत्यसत्त्वादवाच्यः। अथवा, तस्मिन्नेव मध्यावस्थास्वरूपे वर्तमाना-ऽवर्तमानक्षणरूपतया सदसत्त्वात् प्रथम-द्वितीयौ। ताभ्यां युगपदनभिधेयत्वात् तृतीयः । यदि वर्तमानक्षणवत् पूर्वोत्तरक्षणयोर्घटः स्यात्, वर्तमानक्षणमात्रमेवासौ प्राप्तः, पूर्वोत्तरयोर्वर्तमानताप्राप्तेः। न च वर्तमानक्षणमात्रमपि पूर्वोत्तरापेक्षस्य, तदभावेऽभावात् । अथातीता-ऽनागतक्षणवद् वर्तमानक्षणरूपतयाप्यघटः, सर्वदा तस्याभावः स्यात् । एकान्तपक्षेऽप्ययमेव दोष इत्यसत्त्वादवाच्यः। अथवा,क्षणपरिणतिरूपे घंटे लोचनजातिपत्तिविषयत्वाऽविषयत्वाभ्यां स्वरूप-पररूपाभ्यामाद्य-द्वितीयौ । ताभ्यां युगपदादि SPERMEDIOPORDICTIO तृतीयः। यदि व मध्यावस्थास्वरूप घटस्तदा सर्वदा तरावस्थाभ्याम Jain Education to For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy