SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो समुच्चयः । ॥२५०॥ एकं पदमेककधर्मावच्छिन्नमेवार्थ बोधयति' इत्येतन्न्यायार्थः । तेन नानार्थकशब्दस्थल एकपदादुभयोपस्थितावपि नोभयबोधः, पुष्पदन्तादिपदाद् रवि चन्द्राद्युभयत्वेनोभयबोधस्तु सुघट एव, अन्यथा घटपदाद् घटत्वेनाखिल घटबोधोऽपि न स्यादिति चेत् । 'अस्त्वेतदापाततः, तथापि प्रातिस्त्विकरूपेणावक्तव्यत्वमेव । एतेन 'सत्' इति पदादेव शक्त्या सत्त्वस्य, लक्षणया चात्वस्योपस्थितिरस्तु शक्य-लक्ष्ययोर्युगपदन्त्रयस्तु 'गङ्गायां मत्स्य घोषौ' इत्यादाविवोपपद्यते इत्युच्छृङ्खल - वावदूकोक्तावपि न क्षतिः, क्रमिकभङ्गद्रयजन्यमतीत्यपेक्षया युगपदवक्तव्यत्वस्यावाधात् श्रोतुस्तथा जिज्ञासयैव तथोक्तेः, एकत्र जनितापेक्षान्वयस्य स्यात्पदस्येतरत्र व्युपरताकाङ्क्षत्वेनोक्तवदन्वयायोगात् । अत एव न निजार्थान्तरैक ताभ्युपगमेstयर्थस्य तथा वाच्यता, तथाभूतस्य तस्यात्यन्तासच्वात् सर्वथा सच्चेऽन्यतोऽव्यावृत्तत्वात् महासामान्यवत्, घटार्थत्वानुपपत्तेः; अर्थान्तरत्वे पररूपादिवत् स्वरूपादपि व्यावृत्तेः, खरविषाणवदसत्वादवाच्यतैव' इति वदन्ति । न च घटशब्दप्रवृत्तिनिमित्ते विधिरूपे सिद्धेऽसंबद्ध एव तत्र पटाद्यर्थप्रतिषेध इति वाच्यम्; पटादेस्तत्राभावाभावे शब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिद्धेः । शब्दानां चार्थज्ञापकत्वं न कारकत्वम् इति तथाभूतार्थप्रकाशनं तथाभूतेनैव शब्देन विधेयम् इति नासंबद्धस्तत्र पटार्थप्रतिषेधः । अथवा, 'सर्व सर्वात्मकम्' इति सांख्यमतव्यवच्छेदार्थे तत्प्रतिषेधो विधीयते । न च तदभिमतार्थस्य सिद्ध्यसिद्धिभ्यां व्याहतो निषेध इति वाच्यम्; विकल्पतः सिद्धस्यापि तं प्रति व्यवहारव्युदासाय निषेधौचित्यात् । विकल्पतः सिद्धिश्व खण्डशोऽखण्डशो वेत्यन्यदेतत् । " यद्वा, नाम-स्थापना- द्रव्य भावभिन्नेषु घटेषु विधित्सिता ऽविधित्सितप्रकारेण प्रथम द्वितीय भङ्गौ । तत्मकाराभ्यां युगपद Jain Education Intonal For Private & Personal Use Only सटीकः । स्तबकः । ॥ ७ ॥ ॥२५०॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy