________________
स्यात्कारप्रयोगश्च सापेक्षप्रतिनियतस्वरूपप्रतिपत्तये । यत्रापि चासौ न प्रयुज्यते, तत्रापि व्यवच्छेदफलैबकारवदर्थात् प्रतीयते, तदुक्तम्
"सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥१॥" इति ।
तत्र स्वरूपेण घटादिनाऽस्तित्वविवक्षयाऽसत्त्वोपप्सर्जनसत्त्वप्रतिपादनपरः प्रथमो भङ्गः। पररूपेण पटादिना नास्तित्वविवक्षया च सत्त्वोपसर्जनासत्त्वप्रतिपादनपरो द्वितीयो भङ्गः । शब्दशक्तिस्वाभाव्यादेकोपसर्जनेतरप्रधानभावनैव शाब्याः प्रतीतेः। यदा तु तद् वस्तु द्वाभ्यामपि धर्माभ्यां युगपदभिधातुमिष्टम् , तदा तृतीयो भङ्गः । न हि द्वयोर्धर्मयोयुगपत् प्राधान्येन गुणभावेन वा प्रतिपादने किश्चिद् वस्तु समर्थम् । तथाहि- न तावत् समासस्तथा, बहुव्रीहेरन्यपदार्थप्रधानत्वात् । अव्य. यीभावस्य चोभयपदप्रधानत्वेऽप्यत्रार्थेऽप्रतीतेः, द्वन्द्वस्यापि द्रव्यवृत्तेः प्रकृतार्थामतिपादकत्वात् , एकमनूय तदप्रवृत्तेः, गुणतेरपि द्रव्याश्रितगुणप्रतिपादकत्वेन प्रधानभूतयोर्गुणयोरप्रतिपाद्यत्वात् । तत्पुरुषस्याप्युत्तरपदप्रधानत्वात् , द्विगोः संख्यावाचिपूर्वपदत्वात् , कर्मधारयस्य गुणाधारद्रव्यविषयत्वात् , एकशेपस्य चासंभवात् , द्वन्द्वतुल्यत्वाच्च । न च समासान्तरसद्भावोऽस्ति, येन युगपद् गुणद्वयं समासपदवाच्यतामास्कन्देत् । अत एव न विग्रहवाक्यमपि तथा, तस्य वृत्यभिन्नार्थत्वात् । न च केवलं पदं वाक्यं वाऽन्यल्लोकप्रसिद्धं तथा, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् । न च सूर्याचन्द्रमसोः पुष्पदन्तपदवत् , शत्-शानयोः सत्पदवद् वा सांकेतिकमेकं पदं तथा वक्तुं समर्थम् , तस्यापि क्रमेणार्थद्वयमत्यायकत्वात "सकृदुचरितं पदं सकृदर्थ बोधयति" इति न्यायात् ।
Jain Educatiemational
For Private Personal Use Only
www.jainelibrary.org