________________
सटीकः। स्तवकः।
शास्त्रवार्ता- योगरूपैव सत्ता युक्ता, नाऽन्या । समुच्चयः ।
न चात्रापि 'यद्युत्पाद-व्यय-ध्रौव्ययोगादसतां सत्वम् , तदा शशशृङ्गादेरपि स्यात् । स्वतश्चेत् , स्वरूपसत्त्वमायातम् । ॥२४९॥ तथा, उत्पाद-व्यय-ध्रौव्याणामपि यद्यन्यतः सत्त्वम् , अनवस्थाप्रसक्तिः । स्वतश्चेत् , भावस्यापि स्वत एव तद् भविष्यति,
इति व्यर्थमुत्पादादिकल्पनम्' इत्यादिपर्यनुयोगावकाशः, एकान्तपक्षोदितदोषस्य जात्यन्तरात्यके वस्तुन्यप्रसरात् । न हि
भिन्नोत्पाद-व्यय-ध्रौव्ययोगाद् भावस्य सत्त्वमस्माभिरभ्युपगम्यते, किन्तूत्पाद व्यय-ध्रौव्ययोगात्मकमेव सदित्यभ्युपगम्यत FOL इति । तत्र सत्वं सकलव्यक्त्यनुगतं व्यञ्जनपर्यायताम्, प्रतिव्यक्त्यनुगतं चार्थपर्यायतामास्कन्दतिः इत्यमेव सादृश्यास्तित्व
खरूपास्तित्वमित्यपि गीयते । तच्च सत्त्वं सापेक्षमेव सर्वैरनुभूयते, 'मार्तत्वादिना घटः सन् , न तु तन्तुजनितत्वादिना' 'इदानीं घटः सन् , न तु प्राक्' इत्याद्यनुभवात् । बुद्धिविशेषकृतापेक्षयाप्यादेशापराभिधानया सापेक्षमेव तत् , यथा 'अयमेकः, | अयं चैकः' इति कल्पनाकृतापेक्षया द्वित्वादीति ।
एवं चेह सप्तभङ्गी प्रवर्तते, तामिदानी दिमात्रेण दर्शयामः; तथाहि- स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव स्यानास्त्येव, स्यादस्त्येव स्यादवक्तव्यमेव, स्यानास्त्येव स्यादवक्तव्यमेव, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव, इत्येतदुल्लेखः । अत्र सर्वत्रैवकारमयोगोऽनभिमतार्थव्यावत्यर्थम् , इतरथा प्रतिनियतस्वार्थानभिधानेनानभिहिततुल्यतापत्तेः; तदुक्तम्
"वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यम् , अन्यथानुक्तसमत्वात्तस्य कुत्रचित् ॥१॥" इति ।
{
SESS
॥२४९॥
।
JaMEducation internationa
For Private
Personal Use Only