________________
त्वरूपं स्व-परापेक्षत्वम्, जातेरेवाव्याप्यवृत्तित्वाभावात्, किं पुनः सत्तायाः ? इति । ततः कथं 'स्वापेक्षया सत्त्वम्, परापेक्षया चासत्वम्' इत्याहतानामयं प्रवादः १ इति ।
अत्र ब्रूमः -
रूपं यदध्यक्षमवैति लोको वाचाट ! वाचा किमप हूनुषे तत् ।
वक्तुं न शक्तः किमुतासि मन्दो गुडस्य माधुर्यमिवातिमूकः १ ॥ १ ॥
तथाहि-- त्वदभिमता सत्ता तावत् सतर्कताडिता दूरमेव पलायिता । न हि स्वरूपसतां भावानामतिरिक्तसत्तया कचिदुपकारोऽस्ति स्वतो मधुराया इव सुधाया मधुरद्रव्यान्तरसंयोगेन । नापि स्वरूपासतां तेषां तया कश्चिदुपकारः, खलानामिव सकलार्थसिद्धिहेतुना विपश्चित्प्रपञ्चितकलालापेन । कथं च तव जात्यादिषु सद्व्यवहारः, तत्र सत्ताया अभा वात् । एकार्थसमवायेन तत्र स इति चेत् । न, 'सत्' 'सत्' इति प्रतीतेः सर्वत्रैकाकारत्वात् । संबन्धांशे तत्र तस्या बैलक्षण्यमेवेति चेत् । इन्त ! तर्हि प्रकारांशेऽपि तथात्वमेवास्तु । अस्तु वा 'हेरिः' 'हरिः' इत्यादौ हरिपदवाच्यत्वमित्र सत्पदवाच्यत्वमेव सर्वत्रानुगतम् । सत्पदसंकेतविषयतावच्छेदकतयैव तत्सिद्धिरिति चेत् । न तान्त्रिकाणां परस्परं तत्संकेतभेदात्, स्वसंकेतमात्रस्य चार्थाव्यवस्थापकत्वात् । 'घटः सन्' इत्यादावनुभवसिद्धैव सत्तेति चेत् । सिद्धैव सा केवलं तस्या अतिरेकः साधारण्यं च न सिद्धम् । 'द्रव्यजन्यतावच्छेदकतया तत्सिद्धिः' इति तु निरस्तमधस्तात् । तस्मादुत्पाद-व्यय-धौन्य
१ ज. 'त्र तत्र त' । २ ख ग घ च 'हरिरिल्या' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org