SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ शास्वार्ता- समुच्चयः। ॥२४८॥ दीका स्तबकः। ॥७॥ इति दिक् । एतेन मीमांसकानुसारिणोऽपि निरस्ताः, घटादिवत् त्रुटीनां दृश्यमानानां द्रव्यपर्यायत्वेन मूक्ष्मतदुपादानावश्य- कत्वात् । अन्यथा घटादीनामप्युत्पादायनुभवापलापेन संग्रहनयाश्रयणप्रसङ्गात्। इदमेवाशयतः पाह-न च तत्- परासचम्, तत्र- स्वस्मिन् , खसत्वासचवद् नास्त्येव, न्यायाद् विचार्यपाणम् । खसत्वं हि स्वसच्चासत्चविरोधीति तत्र तद् न स्यात्, परासत्चविरोधि तु न तदिति तत् स्यादेव; प्रत्युत यदि तन्त्र स्यात् तदा तदभावनियतं परसत्वमेव स्यादिति भावः ॥२२॥ अत्रैवाक्षेप-परिहारावाहपरिकल्पितमेतच्चेन्नन्वित्थं तत्त्वतो न तत् । ततः क इह दोषश्चेन्ननु तद्धावसंगतिः॥२३॥ एतत्-परासचम , परिकल्पितम् । अतो न स्वसत्चव्याघातकमिति चेत् । नन्वित्थं तत्-परासचम् , तत्वतो | नास्ति, शशशृङ्गवत् । ततः- परासत्वस्य तत्वत इह स्वस्मिन्नभावात् को दोषः ? इति चेत् । ननु- निश्चये, तद्भावसंगतिःपरसत्त्वस्यापतिः। अत्र नैयायिकादयः- ननु वयं 'शृङ्गे शशीयत्ववत् सत्चा-ऽसत्त्वयोः स्व-परापेक्षत्वं कल्पितम्' इत्येव ब्रूमः । न हि सत्त्वे खापेक्षत्वं पृथक्त्वादाविव सावधिकत्वरूपम् , निरवधिकत्वात् सत्तायाः । नापि घटाभावे घटापेक्षत्ववत् सप्रतियोगिकत्वरूपम् , निष्पतियोगिकत्वात् । भावस्य सत्ताभावस्य च सप्रतियोगिकवेऽपि सत्ताप्रतियोगिकत्वमेव न तु परमतियोगिकत्वम् , इति न परापेक्षत्वमस्ति । नापि वृक्षे संयोग-तदभावयोमूल-शाखाद्यवच्छिन्नत्ववद् घटे सत्त्वा-सच्चयोः स्व-परावच्छेद्य ॥ २४८ ॥ AWAN Jain Education Intematonai For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy