________________
ROOOOOK
सोऽयं स्वरसः परस्परमस्वरसग्रस्तः परिमाणमात्रमेव निरपेक्षमनुभूयते. महत्त्वा-ऽणुत्वे तु सापेक्षे एवेति पुनरनेकान्तेऽनुभवसिद्धो विवेकः । अथ महत्वापलापे तदाश्रयस्य प्रत्यक्षत्वं दुर्घटम् , महदुद्भूतरूपवद्र्व्यस्यैव चाक्षुषत्वनियमात् , अणुत्वापलापे तु न किञ्चिद् वाधकमिति चेत् । न, लाघवादुद्भूताणुत्वस्यैव द्रव्यचाक्षुषहेतुत्वात् । उत्कर्षा-ऽपकर्षावपि परस्यापक्षिकाणुत्व-महत्त्वातिरिक्तौ दुर्वचौ, सांकर्येण जातिरूपयोस्तयोर्वक्तुमशक्यत्वात् ।
किञ्च, एवमणुत्ववत् परिमाणमात्रमेव काल्पनिकम् , इति 'महदादिपरिमाणं रूपादिभ्योऽर्थान्तरम् , तत्मत्ययविलक्षणबुद्धिग्राह्यत्वात् , सुखादिवत्' इत्यत्र यदि रूपादिविषयेन्द्रियबुद्धिविलक्षणबुद्धिग्राह्यत्वादिति हेत्वर्थः, तदा हेतुरसिद्धः, तथाव्यवस्थितरूपादिन्यतिरेकेण महदादिपरिमाणस्याध्यक्षप्रत्ययग्राह्यत्वेनासंवेदनात् । अथ 'अणु' 'महत्' इत्याकारतत्प्रत्ययविलक्षणकल्पनाबुद्धिग्राह्यत्वादिति हेतुः, तदा विपर्यये बाधकप्रमाणाभावादनकान्तिकः। न ह्यस्याः किश्चिदपि परमार्थतो ग्राह्यपस्ति । कल्पना त्वेकदिङ्मुखादिप्रवृत्तेषु विशिष्टरूपादिपलब्धेषु तद्विलक्षणरूपादिभेदप्रकाशनायासद्विषयिण्येव प्रवर्तत इति । युक्तं चैतत्, परपरिकल्पिततदभावेऽपि प्रासाद-मालादिषु महदादिपत्ययप्रादुर्भूतेरनुभवात् । न चायमौपचारिकः, अस्खलद्वृत्तित्वात् । तदुक्तम्
"मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः। मुख्याविशिष्टविज्ञानग्राह्यत्वाद् नौपचारिकः॥१॥"
इति वदन्तस्ताथागताः कथं प्रतिक्षेप्याः ? । एकस्य स्खलक्षणस्य भिन्नपुरुषीयनानाकल्पनाहेतुसमनन्तरसहकारित्वे स्वभावभेदप्रसङ्गाद् वयमेव हि तान् प्रत्याचक्षाणाः शोभेमहि, न तु यूयमेकान्तेनानेककार्यजननैकखभावमेकं वामत्रेणाभ्युपयन्त
Jhin Educ
a
tional
For Private Personel Use Only
www.jainelibrary.org