________________
शाखवार्ता
समुच्चयः ॥२४७||
इह सर्वभावानामेव न स्वसत्वं परासत्त्वम. किं तर्हि ? कथञ्चिदन्यत । कुतः ? इत्याह- तदसचविरोधत:- अभि-PAI
सटीकः। ननिमित्तत्वे सत्त्वस्यैवासत्त्वविरोधात , भिन्ननिमित्तत्वे तु कथञ्चिद् भिन्नमुभयमेकरूपतामासादयेदपि, यथैकापक्षयाऽण्वेवाप
स्तरकः।
॥७॥ रापेक्षया महदिति । यदवदाम प्रतीत्यसत्याधिकारे भाषारहस्ये
'भिन्ननिमित्तत्तणो ण य तसि हंदि ! भण्णइ विरोहो । बंजय-घडयाईअं होइ णिमित्तं पि इह चित्तं ॥१॥" इति ।
अन्ये वाहुः- दृष्टान्त एवायमसिद्धः, भिन्नापेक्षयोरणुत्व-महत्वयोरेवाभावात् , महत्यपि महत्तमादणुव्यवहारस्यापकृष्टमहत्त्वनिबन्धनत्वेन भाक्तत्वात , नित्यानित्ययोरणुत्वयोः परमाणु-यणुकयोरेव भावात् , एतत्रुटावेव विश्रामाद् नास्त्येवाणुत्वम् । त्रुटौ चापकृष्टं महत्त्वमेवाणुत्वव्यवहारनिबन्धनम् । तच्च नित्यमेव । गगनमहत्त्वावधिकस्त्वपकर्षो न बहुत्वजन्यतावच्छेदकः, त्रुटिमहत्त्वावधिकोत्कर्षेण सांकर्यापत्त्या तस्यानुगतस्याभावात् , त्रुटिमहत्त्वावधिकोत्कर्षस्य तजन्यतावच्छेदकत्वात् , गगनमहत्त्वादेरपि जन्यत्वापातात् । व्यञ्जकत्वं च जातिविशेषेण शक्तिविशेषेण वा, इति नेन्धनादिसंसर्गिणां मूक्ष्मवढ्यादीनां महतां सतामन्धकारे इन्धनादिव्यञ्जकत्वापत्तिः, इति तु मीमांसकानुसारिणः।
ते भ्रान्ताः, 'अयमितो महान् , इतवाणुः' इति बुद्ध्यैकत्र भिन्नापेक्षयोरणुत्व-महत्वयोविलक्षणयोरेवानुभवात् ।। 'इतोऽणुः' इति प्रयोग 'एतदपकृष्टमहत्त्ववान्' इत्युपचारेण विकृत्यैतदपेक्षाणुत्वपर्यायापलापे 'इतो महान्' इत्यपि 'एतदपकृष्टाणुत्ववान्' इति विवृत्य समर्थयतो महत्त्वमेव चापलपतः कः प्रतीकारः । महत्त्वमपेक्षां विनैव स्वरसतोऽनुभूयत इति चेत् ।
' भिन्ननिमित्तत्वतो न च तेषां हन्त ! भण्यते विरोधः । व्यञ्जक-घटकातीतं भवति निमित्तमपीह चित्रम् ॥1॥
२४७॥
Jain Education International
For Private & Personel Use Only
Niwww.jainelibrary.org