________________
Jain Education Inte
प्रामाण्यं सकलसिद्धम् । नात्र न श्यामत्वाभावस्य श्यामान्यत्वस्य वा व्यवच्छेदः, श्यामान्यत्वस्याव्याप्यवृत्तित्वेऽपि प्राक् तदभावात् व्याप्यवृत्तित्वे च सुतराम् । 'श्याम एव' इत्यत्र श्यामान्यरूपवान् व्यवच्छेद्यः, व्यवच्छेदशात्रान्योन्याभावः, स चाव्याप्यवृत्तिरिति न दोष इति चेत् । न, 'प्राक् श्याम एव' इत्यस्य साधुत्वापत्तेः । श्यामान्यरूपवत्त्रस्य व्यवच्छेद्यत्वे च साधुत्वापत्तिरेव 'अयं श्याम एव' इत्यस्य । न चात्रैतद्वृत्तिश्यामान्यरूपे एतत्कालवृत्तित्वव्यवच्छेदं लक्षणादिना प्रतियतोऽप्रामाण्यम्, अन्यस्य तु प्रामाण्यमेवेति वाच्यम्, स्वरसत एव तत्राप्रामाण्यव्यवहारात् ।
1
कथं च चित्रे घटेऽव्याप्यवृत्तिनानारूपसमावेशवादिनाम् 'अयं नील एव' इति न प्रयोगः १ । नीलान्यसमवेतत्वस्यैवात्र व्यवच्छेद्यत्वाद् नायं दोष इति चेत् । न, 'गगनं नीलमेव' इति प्रसङ्गात् । नीलसमवेतत्वमप्यत्र प्रतीयत इति चेत् । न, तथापि 'रूपं नीलमेत्र' इति प्रसङ्गात् । रूपत्वावच्छेदेन नीलसमवेतत्वाभावाद् न दोष इति चेत् । न, तथापि 'नील नीलमेव ' इति प्रसङ्गात् । जायत एव 'नीलं नीलमेवेति' इति चेत् । यदि जायते तदा गुणवृत्तिना नीलपदेन, न तु द्रव्यवृत्तिना; आपाद्यते तु द्रव्यवृत्तिना तेनेति । नीलसमवेतद्रव्यत्वमप्यत्र प्रतीयत इति चेत् । न, अन्यत्र 'नील एव' इत्यतोऽनीलत्वव्यवच्छेदमात्रस्यैव प्रत्ययात् । प्रकृतेऽपि नीलावयवमधिकृत्य 'इह नील एवं' इत्यप्रत्ययप्रसङ्गाच्च । तस्मात् तत्तत्काल देशार्थ शापेक्षयैव विधिः, व्यवच्छेदो वा प्रतीयते इति सम्यगवहितैः परिभावनीयम् ॥ २१ ॥
यस्तु दुर्विदग्धः 'प्रत्यक्षस्य स्वमानत्वमेवाऽनुमानत्वेनामानत्वमिति न सर्वथा मानत्वक्षतिः' इत्याह तं शिक्षयितुमाहन स्वसत्त्वं परासत्त्वं तदसत्त्वविरोधतः। स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् ॥ २२॥
For Private & Personal Use Only
www.jainelibrary.org