________________
शास्त्रवार्तासमुच्चयः । ॥२४६॥
Jain Education
न्यनिष्टप्रतियोगिताकस्याभावस्य व्यवच्छेद्यत्वाद् न दोष इति चेत् । न मानत्वेन मान घटोभयाभावस्य तथात्वात् । मानमात्र निष्ठप्रतियोगितोपादानाद् न दोष इति चेत् । न, तथापि 'प्रत्यक्ष घटौ न मानम्' इति प्रतीतेः, प्रत्यक्ष-घटोभयत्वावच्छेदेन तादृशमानत्वावच्छिन्नाभावस्य सच्चात् तत्र तद्व्यवच्छेदायोगात् । प्रत्यक्षत्वावच्छिन्नाधिकरणताकस्य च तादृशाभावस्य सिद्ध्यसिद्धिपराहतत्वेन व्यवच्छेत्तुमशक्यत्वात् । अथ वैशिष्ट्यव्यासज्यवृत्तिधर्मावच्छिन्नाधि करणताकाभावसच्चे तदन्यत्वमप्युपोदयमिति चेत् । न, 'य एव हदे वहयभावः स एव इद पर्वतयोः' इत्येकत्वप्रत्ययात्, व्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावस्य सत्वाच्च । शुद्धाधिकरण ताकत्वविशिष्टविशेषणतया तदन्यत्वस्य व्यवच्छेत्तुं शक्यत्वाद् न दोष इति चेत् । न, 'मानत्वेन घटो मानमेव' इति प्रसङ्गात् । तत्र निरुक्तविशेषणतयापि मानान्यत्वमस्तीति चेत् । तयैव तर्हि प्रत्यक्षेsपि तदिति तदवस्थो दोषः, तदधिकरणवृत्तित्वान्तर्भावे च भावाभावकरम्बितैकवस्त्वापात इति दिकः । तस्मात् तत्तदपेक्षागर्भतत्तदनेक पर्यायकरम्बितत्वाद् वस्तुनस्तथा तथा प्रयोगे तत्तदपेक्षा लाभार्थं स्यात्कारमेव प्रयुञ्जते सर्वत्र प्रामाणिकाः, अन्यथा निराकाङ्गमेव सर्व वाक्यं प्रसज्येत । न च समभिव्याहारविशेषादपेक्षालाभः, इतरसमभिव्याहारवलात् किञ्चिद्वाक्यार्थापेक्षालाभेऽपि तत्तन्नय-निःक्षेपाद्यनुगतपदार्थापेक्षायाः स्यात्कारसमभिव्याहारं विनाऽलाभात् । इत्थं च 'स्यात्प्रत्यक्षं मानमेव ' 'स्याद् न मानमेव' इत्याद्येव प्रयुज्यमानं शोभते, अनेकान्तद्योतकेन स्यात्पदेन तत्तदपेक्षोपस्थितेः; अन्यथा मानत्वस्य मानान्यत्वव्यवच्छेदस्य च सकलमानव्यक्त्य पृथग्भूतस्य सापेक्षप्रत्यक्षापृथग्भावप्रतीती तदपेक्षाऽविषयत्वरूपाप्रामाण्यापातात् । न चेदेवम्, पाकरक्ते घटे 'अयं श्याम एव' इति कुतो न प्रयोगः ? कथं चैतद
national
For Private & Personal Use Only
सटीकः । स्तवकः । ॥७ ॥
॥२४६॥
www.jainelibrary.org