SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ PPPCOCAPACHERSORING समभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वम् , विभक्तरश्रवणं तु लुप्तत्वात् , स्वभाववैचित्र्याच्च । तदर्थेऽन्यस्यान्वयो न व्यवच्छेदस्य, समभिव्याहृतमातिपदिकार्थस्य चैवकारोपस्थितेऽन्यस्मिन्नप्यन्वयः । एवमन्वयान्तरनियमोऽपि, स्वीयैकार्यान्वितार्थान्तरबोधकत्वमपि तस्य स्वभाववैचित्र्यादेव । एवं च 'पृथिव्यामेव गन्धः' इत्यत्र पृथिव्यां गन्धः, 'पृथिव्यन्यस्मिन् न गन्धः' इत्यन्वयः । 'चैत्रो जलमेव भुते' इत्यत्र 'चैत्रो जलं भुङ्क्ते, जलान्यद् न भुक्त' इति । 'पार्थ एव धनुर्धरः' इत्यत्र 'पार्थो धनुर्धरः, पार्थान्यो न धनुर्धरः' इति । 'शङ्खः पाण्डुर एव' इत्यत्र 'शङ्खः पाण्डुरः, न पाण्डुरान्यः' इति' इति वदन्ति । अत्र ब्रूमः- 'प्रत्यक्षं मानमेव' इत्यत्रास्तु मानत्वायोगव्यवच्छेदः, मानान्ययोगव्यवच्छेदो वा, तथापि प्रत्यक्षेऽनुमानत्वेन न मानत्वम् , 'प्रत्यक्षमनुमानत्वेन न मानम्' इति प्रतीत्या विशेषरूपेण सामान्याभावस्य, विशेषरूपेण सामान्यभेदस्य वा सिद्धौ न सर्वथा तब्यवच्छेदः शक्यः। शक्य एवं मानत्वत्वपर्याप्तावच्छिन्नप्रतियोगिताकोऽयोगः, मानवापर्याप्तावच्छिन्नप्रतियोगिताको वाऽन्ययोगो व्यवच्छेत्तुम् , विशेषरूपेण सामान्याभावस्थातिरेके तस्य विशेषरूपपर्याप्तावच्छिन्नप्रतियोगिताकत्वात् , अनतिरेके च विशिष्टरूपर्याप्तावच्छिन्नप्रतियोगिताकत्वादिति चेत् । न, तब विशिष्टानतिरेकेण शुद्धापर्याप्तस्य विशिष्टापर्याप्तत्वात् , अतिरिक्तपर्याप्तिकल्पने तत्र विशिष्टनिरूपितत्व-तत्संबन्धादिगवेषणायामनवस्थानात् , 'अनुमानत्वेन न मानत्वम् इत्यत्रामानत्वस्य मानत्वावृत्तितया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपर्यवसानात् , अनुमानेऽपि तथाप्रयोगप्रसङ्गात् । किश्च, व्यधिकरणधर्मावच्छिन्नाभावस्य प्रामाणिकत्वाद् मानत्वावच्छिन्नमतियोगिकताकस्य घटाभावस्य प्रत्यक्षे सत्त्वात् कथं तद्व्यवच्छेदः । मानत्वावच्छिन्नमाननिष्ठपतियोगिताकस्य सामान्यरूपेण विशेषाभावसत्त्वे वा तादृशतत्सामा Jain Education Intera For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy