________________
शाखवातासमुच्चयः। ॥२४५॥
सटीकः। स्तवकः। ॥७ ॥
'गुणवदेव द्रव्यम्' इत्यादौ द्रव्यादावेव गुणवदाद्यन्यत्वस्य व्यवच्छेदः, न तु द्रव्यत्वादौ गुणवदाधन्यवृत्तित्वस्य, 'चैत्र एव पचति' इत्यादौ लक्षणयोपस्थिते तादृशकादौ चैत्रान्यत्वादिव्यवच्छेदः । 'आत्मनैव ज्ञायते' इत्यादी ज्ञानादावात्मान्यसमवेतत्वस्य व्यवच्छेदः । 'शीत एव स्पर्शो जलवृत्तिः' इत्यत्र जलवृत्तौ शीतान्यस्पर्शतादात्म्यस्य, जलवृत्तिस्पर्थे वा शीतान्यत्वस्य । 'जातिमत्येव सत्ता, इत्यादौ 'समवेति' इत्यध्याहारेण समवाये जातिमदन्यवृत्तित्वविशेषस्य व्यवच्छेदः । 'इह भवने मैत्रेणैव पक्ष्यते तेमनम्' इत्यत्र मैत्रान्यस्मिंस्तादृशकतिव्यवच्छेदो लक्षणया बोध्यते, तत्रैतद्भवनवृत्तितेमनादौ मैत्रान्यपक्ष्यमाणत्वादेर्व्यवच्छेत्तुमशक्यत्वात् । एवं 'आत्मनैव तेमनं ज्ञायते, इष्यते', पच्यते, भुज्यते' इत्यादावात्मान्यज्ञेयत्वादेरमसिद्धत्वेन व्यवच्छेदासंभवादियमेव रीतिरनुसतव्या।'
अपरे पुनः- 'एवकारस्यात्यन्ताभावः, अन्योन्याभावश्चार्थः । 'पृथिव्यामेव गन्धः' इत्यत्र पृथिवीपदे पृथिव्यन्यस्मिल्लक्षणया गन्धे प्रकृत्यान्वितविभक्त्यर्थस्य, लाक्षणिकार्यान्वितविभक्त्यान्वितस्यैवकारार्थव्यवच्छेदस्य वाऽन्वयः । 'पार्थ एव धनुर्धरः' इत्यत्र शक्ये पार्थे विशेषणस्य धनुर्धरस्य तादात्म्येन, लक्ष्ये च पार्थान्यस्मिन् धनुर्धरान्योन्याभावस्याधाराधेयभावेन । 'शीत एव स्पर्शो जलवृत्तिः' इत्यत्र शीतपदोपस्थापितयोः शीत-तदन्ययोरभेदेन स्पर्शेऽन्वयः, शीतान्वितस्पर्शे जलवृत्तितादात्म्यम् , शीतान्यस्पर्शे च जलवृत्तेरन्योन्याभाववचं प्रतीयत इत्यागृह्यम् ।' ___ अन्ये तु- 'अन्यव्यवच्छेदश्वार्थः । व्यवच्छेदोऽपि च द्वयी- अत्यन्ताभावश्च, अन्योन्याभावश्च । एवकारे च प्रायेण १ ख, 'ते भु' ।
DCOMICROK
॥२४५॥
Jan Education
For Private
Personel Use Only
www.jainelibrary.org