SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ CER अन्ययोगव्यवच्छेद एव वार्थः, सर्वत्र शक्तिद्वयकल्पने गौरवात् 'शङ्खः पाण्डुर एव' इत्यादौ पाण्डुरत्वाद्यनुपस्थित्या पाण्डुरत्वाद्ययोगव्यवच्छेदस्य प्रत्याययितुमशक्यत्वात् ,पाण्डुरान्ययोगव्यवच्छेदस्यैव तत्रान्वयात् ; 'नीलं सरोजं भवत्येव' इत्यादावपिनीलाधन्ययोगस्य व्यवच्छेद्यत्वात् , अयोगव्यवच्छेदस्येवान्ययोगव्यवच्छेद्यस्यापि कचिदन्वयितावच्छेदकसामानाधिकरण्यमात्रेणान्वये क्रियाविशेषयोगादेर्नियामकत्वात् : 'ज्ञानमर्थ गृह्णात्येव' इत्यादौ च तिको धर्मिपरतयाऽर्थग्राहकाद्यन्ययोगव्यवच्छेदा|न्वयसंभवात् । अन्ययोगश्च प्रातिस्विकरूपेण तात्पर्यसमभिव्याहारविशेषवशाद् भासते । तेन गन्धादेः संयुक्तसमवायादिनाऽन्यवृत्तित्वेऽपि 'पृथिव्यामेव गन्धः' इत्यादेर्नानुपपत्तिः, अन्यसमवेतत्वादेर्व्यवच्छेदान्वयात् । अत्र च गन्धादौ तद्वृत्तित्वं तदन्यवृत्तित्वव्यवच्छेदश्चेति द्वयं प्रतीयते, इति 'पृथिव्यामेवाकाशम्' इत्यादेन प्रसङ्गः । 'चैत्रस्यैवेदं धनम्' इत्यादौ चैत्रान्यस्वत्वादेर्धने व्यवच्छेदः, न तु चैत्रादिस्वत्वाद्ययोगस्य, उभयस्वामिकादावपि 'चैत्रस्यैव' इत्यादेः प्रसङ्गात् । एवं 'शीतस्यैव स्पर्शस्य जलवृत्तित्वम्' इत्यत्र जलवृत्तित्वे शीतान्यस्पर्शसंबन्धस्य, 'चैत्रो जलमेव भुते' इत्यत्र चैत्रे जलान्यभक्षणकर्तृत्वस्य, 'चैत्रेणैवायं दृश्यते' इत्यत्रास्मिश्चैत्रान्यवृत्तिदर्शनविषयत्वस्य, न तु दर्शने चैत्रान्यवृत्तित्वस्थ, चैत्रदर्शनस्य तदन्यावृत्तित्वेनोभयदृश्यमानेऽपि तादृशप्रयोगप्रसङ्गात् । एवं च साधारण्यादन्यसंबद्धमेव व्यवच्छेद्यम् , अन्यसमवेतत्वादेरप्यन्यसंबद्धत्वात् , साक्षात् पारम्पर्येण विशेषात् । 'शङ्खः पाण्डुर एव' इत्यादौ पाण्डुरान्यतादात्म्यस्य व्यवच्छेदः, पाण्डुरान्यत्वस्यैव वा । इत्थं चान्यत्वे व्यवच्छेदे च शक्तिः, अन्यसंबद्ध लक्षणाव्यवच्छेद एव वा शक्ति समभिव्याहारादिबलोपस्थिते च पाथोंन्यत्वादी लक्षणा, लक्ष्य-शक्ययोश्चैवकारार्थयोरेवकारनियन्त्रितव्युत्पत्तिविशेषात् परस्परमन्वयः । बा तु चैत्रादिस्यत्वावशानाम्यस्पर्शसंवन्ध, न तु दर्शने चैत्रान्यलयम्, Join Education na For Private & Personel Use Only X ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy