________________
शास्त्रवार्ता - समुच्चयः । ॥२४४॥
प्रत्यक्षं नानुमानम्, प्रत्यक्षस्वभावत्वाचेत् । एवं तद्भावाहते- अनुमानमानत्वमन्तरेण कथं मानमेवेति स्यात्, प्रत्यक्षस्य स्वमानत्वेनैव मानत्वात्, अनुमानमानत्वेन चामानत्वात् १ इति ।
अत्र नैयायिकादयः - ' नन्वनुमानान्यत्वेऽपि प्रत्यक्षस्य, 'प्रत्यक्षं मानमेव' इति प्रयोगो न दुर्घटः । न हि 'मानमेव ' इत्यत्र कार्यमेव कारार्थः कस्याप्येकस्य कृत्स्नमानरूपत्वाभावात्; किन्त्वयोगव्यवच्छेदः, तत्र च व्युत्पत्तिवशाद् मानत्वावच्छिन्नप्रतियोगिताकायोगोपस्थितेर्न दोषः, प्रत्यक्षेऽनुमानत्वावच्छिन्नायोगसत्त्वेऽपि मानत्वावच्छिन्नायोगाभावादिति । अत्रेयमेव कारमर्यादा -- विशेष्य संगतैवकारस्यान्ययोगव्यवच्छेदोऽर्थः यथा 'पार्थ एव धनुर्धरः' इत्यादौ । विशेषणसंगतवकारस्यायोगव्यवच्छेदोऽर्थः, यथा 'शङ्खः पाण्डुर एव' इत्यादौ । क्रियासंगतैवकारस्याऽत्यन्तायोगव्यवच्छेदोऽर्थः यथा 'सरोजं नीलं भवत्येव' इत्यादौ । अत्र तत्तद्विशेष्य संगतैधकारादेस्तत्तदन्ययोगव्यवच्छेदादौ शक्तिः । '
नव्यास्तु - 'अत्यन्तायोगव्यवच्छेदो नैवकारार्थः । अत्यन्तायोगो हि न संर्वस्य तज्जातीयस्यायोगवस्त्रम् तद्वयवच्छेदस्य सिद्ध्यसिद्धिपराहतत्वात् । नापि तज्जातीये सर्वत्रायोगव्यवच्छेदः, 'सरोजं नीलं भवत्येव' इत्यादौ बाधात् । किन्त्वयोगे तज्जातीयावच्छिन्नत्वस्य व्यवच्छेदः । स च तज्जातीयस्य कस्यचिदयोगव्यवच्छिन्नत्वे पर्यवसित इत्ययोगव्यवच्छेद एव तज्जातीयैकदेशान्वयित्वेनात्यन्तायोगव्यवच्छेदो गीयते । अयोगव्यवच्छेदस्तु 'ज्ञानमर्थं गृह्णात्येव' इत्यादौ । स चान्वयितावच्छेदकावच्छेदेन प्रत्याय्यते, 'ज्ञानं रजतं गृहात्येव' 'नरो वेदानधीत एव' इत्याद्यप्रयोगात् । नियामकस्तु क्रियाविशेषयोगादिरेव । एवं चैवकारस्य द्वयमेवार्थ:- अयोगव्यवच्छेदः, अन्ययोगव्यवच्छेदश्वेति ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः
।
|| 6 ||
॥२४४॥
www.jainelibrary.org