________________
Jain Educatio
वह्निमान् तदभावव्याप्यवश्व' इति संशयरूपानुमितेर्दुर्वारत्वात् विरोधविषयकै कधर्मिकस्थाणुत्व- तदभावप्रकारक ज्ञानेऽपि संशयव्यवहाराच्च; अन्यथा तस्य संशयान्यत्वे ततो निश्चयकार्यापत्तेः । अत एव न द्वितीयादिरपि । इति स्वतन्त्रनीत्या
तो ज्ञानविषयतया परस्परग्रहप्रतिबन्धकतावच्छेदकधर्ममेव विरोधपदार्थमाचक्षाणाः प्रतिक्षिप्ताः कचिद् रूप-रसयोरपि तथात्वेनैकत्र तदुभयग्रहस्यापि संशयत्वापत्तेः संशये तदभावव्याप्तिपर्यवसायिविरोधभानेऽपि तदभावव्याप्यवत्ता निश्चयत्वाभावात्, तदंशेऽवधारणात्मकविषयताया एव तदंशे निश्वयत्वात्; अन्यथाऽनध्यवसायेऽतिव्याप्तेः । न चानुत्कटैक कोटिकः संशय एवानध्यवसायः, अनुत्कटत्वानिरुक्तेः, (अ) स्पष्टतावदवधारणाख्यानध्यवसायविलक्षणविषयतानुभवाच्चेति । अन्यत्र विस्तरः । एवकारप्रयोगानुपपत्तिरूपोऽनिश्चयोऽपि नास्माकम् स्यात्कारगर्भत्वेन तदुपपत्तेः, चित्रे घटेऽंशापेक्षया 'कथञ्चिद् नील एव' इतिवत् ; श्यामे घटे कालापेक्षया कथञ्चिद् 'न श्याम एव' इतिवत् एतत्कालवृत्तौ स्वभावापेक्षया कथञ्चित् 'स एवायम्' इतिवदित्याद्यूह्यम् ॥ २० ॥
परस्य तु दुर्घटोऽयमित्युक्तमेत्र प्रकटयति
मानं चेन्मानमेवेति प्रत्यक्षं लैङ्गिकं ननु । तत्तच्चेन्मानमेवेति स्यात् तद्भावादृते कथम् ॥२१॥
मानं चेदधिकृतं मानमेव सर्वथा प्रमाणमेव, इति हेतोः, सर्वथा प्रमाणत्वात्, 'ननु' इत्याक्षेपे, प्रत्यक्षं लैङ्गिकं स्यात्, तस्य सर्वथा मानत्वात्, मानसामान्यव्यापकस्वभावत्व एव तथात्वोपपत्तेः । पराशयमाशङ्कयाह तत्- अधिकृतं मानं, तत्
national
For Private & Personal Use Only
www.jainelibrary.org