________________
सटीकः। स्तबकः।
अतएव प्रागुपस्थितविरोधयोः स्थाणा अतएव च कचित् संसर्गशब्दादिना सहन स्याद्वाद इत्यवधेयम् । ये तु- एक
SHAR
शास्त्रवातो- मानत्वा-ऽमानत्वयोः कथञ्चिदविरोधात् , अवधृतविरोधयोधर्मयोरेकत्र धार्मिणि प्रतिभासस्यैव संशयत्वात, "स्वपर्युदाससमुच्चयः।
परिकुण्ठितं चित्तम्" इति भाष्यप्रतीकेनैतदर्थलाभात् । धर्मयोर्विरोधावरणं च कचित् प्राक्, कचित् पश्चात् , कचिच्च सहैव । ॥२४३||
अत एव प्रागुपस्थितविरोधयोः स्थाणुत्व-पुरुषत्वयोर्विरोधानुल्लेखेनापि स्थाणौ प्रतिभासः, तथा, अत एव च श्यामत्वा-ऽश्यामत्वयोरेकत्र ग्रहेऽपि विरोधस्फूर्ती तथात्वम् ; अत एव च कचित् संसर्गशब्दादिना सहैव विरोधस्फूर्ती तथात्वम् । इत्थं च नया एवेतरनयविषयविरोधावधारणे संशेरतेऽपि, तदक्तम्- 'परविचारणे मोहाः' इति, न तु स्याद्वाद इत्यवधेयम् । ये तु- 'एकत्र तत्तदभावोभयप्रकारकज्ञानमेव संशयः, एकत्रेत्यस्यैकविशेष्यताकत्वार्थत्वाद् न समुच्चयेऽतिव्याप्तिः, तत्र तत्तदभावप्रकार
तानिरूपितविशेष्यताभेदात्' इति नैयायिकादयो वदन्ति ; तेषां 'स्थाणुर्वा पुरुषो वा' इति संशयानुपपत्तिः । न च तत्र Ke चतुष्कोटिक एव संशयः, द्विकोटिकस्यैवानुभवात् । 'समुच्चये प्रकारताभेदाद् विशेष्यताभेदो न तु संशये' इत्यत्र च शपथ
मात्रस्य शरणत्वादिति । येऽपि 'तत्-तदभाव-तत्तद्वयाप्यादिविषयता अन्यतमत्वेनानुगतीकृत्य तदघटितं संशयत्वमाचक्षते; तेषामप्यन्यापोहपर्यवसानम् ।
इत्थं च विरोधः किमिह तद्वदवृत्तित्वम् , तद्वत्ताग्रहप्रतिबन्धकग्रहविषयत्वं वा। तज्ज्ञानमपि प्रकारतया, संसर्गविधया वा । नाद्यः, तद्वदवृत्तित्वलक्षणविरोधस्य तदभावव्याप्तिपर्यवसायिनः संशयेनास्पर्शात् , तदभावव्याप्यवत्तानिश्चयस्य संशयप्रतिबन्धकत्वात् , तदभावस्य च कार्यसहभावेन हेतुत्वात् । तदभावव्याप्यत्तानिश्चयत्वं च न तदभावाप्रकारकत्वघटितम्, गौरवात् । अन्यथा 'वह्नयभावव्याप्यवान् वहिव्याप्यवान् पर्वतः' इति परामर्शद्वयात 'पर्वतो
॥२४३॥
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org