________________
नभूतप्रातिस्विकमनस्कारभेदात् कार्यभेदः' इत्यपि निरस्तम् , एकस्य घटादेरनेकोपादान-सहकारित्वायोगात् । न च तथादर्शनादेव तथाभ्युपगमः, तस्य तथाभूतचित्रवस्तुनिमित्तत्वात् , अन्यथैकस्वभावत्वाभ्युपगमविरोधात् । व्यवस्थापितश्चायमर्थः ।
"यतः स्वभावतो जातमेकं नान्यत्ततो भवेत् । कृत्स्नं प्रतीत्य ते भूतिभावत्वात् तत्स्वरूपवत् ॥१॥
अन्यच्चैवविधं चेति यदि स्याकि विरुध्यते । तत्स्वभावस्य कात्स्न्येन हेतुत्वं प्रथमं प्रति ? ॥२॥" इत्यादिना ग्रन्थेन ग्रन्थकृतैवानेकान्तजयपताकादौ । एकानेकस्वभावे च वस्तुनि न किश्चिद् दृषणमुत्पश्यामः । न हि शोकवासनानिमित्तस्वभावत्वमेव प्रमोदादिवासनानिमित्तस्वभावत्वमिति, व्ययो-त्पादादिशक्तिभेदात् , एकस्मादेव घटनाशादनेकेषां घटार्थिनां युगपच्छोकोत्पादेऽप्यनेकोपादानसंबन्धनिमित्ततास्वभावभेदात् । तदिदमुक्तम्- “न चैकानेकस्वभावेऽप्ययमिति, तथादर्शनोपपत्तेः" इति ॥ १९ ॥
'किश्च स्यावादिनो नैव' इत्यादिनोक्तं दोषं परिहरनाहन मानं मानमेवेति सर्वथाऽनिश्चयश्च यः। उक्तोनयुज्यतेसोऽपि यदेकान्तनिबन्धनः॥२०॥
'न मानं मानमेव' इत्यभिसंधाय सर्वथाऽनिश्चयश्च यः पूर्वपक्षवादिनोक्तः, सोऽपि न युज्यते, यत्- यस्मात् , एकान्तनिवन्धनः, सः- अनिश्चयः । तथाहि-न तावदस्माकं माने कथश्चिदमानत्वसमावेशादप्रामाण्यसंशयादानिश्चयः,
१ अस्मिन् स्तबके कारिका ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org