________________
शास्ववार्ता- समुच्चयः। ॥२४२॥
सटीकः। स्तबकः। ॥७॥
PRAS
नानाप्रकारा, सा- वासना समनन्तरज्ञानक्षणलक्षणा, न जातु- कदाचित् , अनिरन्धना- निर्हेतुका ॥ १८ ॥
अत्र हेतुमाहसदाभावेतरापत्तिरेकभावाच्च वस्तुनः। तद्भावेऽतिप्रसङ्गादि नियमात्संप्रसज्यते॥१९॥
सदाभावेतरापत्तिः- अत्र भाव उत्पत्तिः, इतरपदार्थोऽनुत्पत्तिः, निर्हेतुकत्वे तस्या उत्पत्तिशीलत्वे सदोत्पत्यापत्तिः, अनुत्पत्तिशीलत्वे च सदानुत्पत्यापत्तिरित्यर्थः । चित्रवासनायां दोपान्तरमाह- एकभावाच्च- एकस्वभावाच वस्तुनः, नद्भावेचित्रवासनोत्पादेऽभ्युपगम्यमाने, नियमादतिपसङ्गादि । आदिना विपर्ययाऽनेकस्वभावत्वादिग्रहः । तथाहि-एकस्माद् विचि
वासनाभ्युपगमेऽधिकृतात् कुतश्चित् सकलव्यवहारनियामकवासनोत्पत्तौ तन्मानं जगदित्यतिप्रसङ्गः । जातिभेदाद् नियमोपपत्ते यं दोष इति चेत् । न, जातेरवस्तुत्वात् । कल्पितश्च जातिभेदो न कार्यभेदनियामकः, अन्यथा कल्पितात् तदर्भदात् कार्याभेदोऽपि स्यात् । अस्तु वा यत्किञ्चिदेतत् , मा भूत् तथापि रूपादे रसादिवासना, नीलादेः पीतादिवासना तु स्यात् , जातिभेदाभावात् । नीलादेः पीतादिवासनानां सजातीयानामप्यजननस्वभावत्वाद् नायं दोष इति चेत् । न, वाङ्मात्रत्वात् । | नीलं हि नीलबासनामेव जनयति न तु भिन्ना पीतादिवासनामितिवद् घटोऽपि शोकवासनामेव जनयेद् न तु प्रमोदवासनामिति । एकस्यैव तस्य शोकादिनानावासनाजननस्वभावत्वाद् न दोष इति चेत् । हन्त ! एवं येन स्वभावेन तस्य शोकजनकत्वं तेनैव प्रमोदजनकत्वे, शोकस्थलेऽपि प्रमोद इति विपर्ययः स्यात् । अन्यथा च स्वभावभेदापत्तिः । एतेन 'उपादा
RRES
२४२॥
पा Jain Education Intemational
For Private & Personel Use Only
EN
www.jainelibrary.org