________________
काट
जनरल
स्येत्यभिप्रेत्य नयान्तरेण वा पूर्व तथोक्तिः । अत एवोक्तं तत्वार्थवृत्तौ- अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा तथा सर्वार्थत्वात् : पाश्चात्यः पर्यायनयस्य, तथापरिणति-विज्ञानाभ्याम्" इति । अत एव च
नाम ठवणा दविएं त्ति एस दवट्टियस्स णिक्खेवो । भावो अपज्जवहि अपरूवणा एस परमत्थो ॥१॥" ।
इति सम्मतिगाथायाम् । अथवा, 'वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्याधुनाऽध्यारोपिता-ऽनध्यारोपितनाम-स्थापना-द्रव्य-भावनिवन्धनव्यवहारनिबन्धनतामनयोरेव प्रतिपादयन्नाहाचार्यः' इति द्वितीयावतरणिका । इति दृढतरं सुधीभिर्विभावनीयम् ।
इत्येवं बुद्धनिक्षेपो मौढ्यक्षेपोद्यतः सुधीः । तथा तथा प्रयुञ्जीत यथा संधा न बाधते ॥ १ ॥ इति ।। १७ ॥
यच्चोत्पादादित्रयात्मकत्वे शोक-प्रमोद-माध्यस्थ्योदयसाधकस्यान्यथासिद्धिर्वासनाविशेषणेति पूर्वपक्षिणोक्तम् , तद् Ho दूषयितुमाहवासनाहेतुकं यच्च शोकादि परिकीर्तितम्। तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना॥१८॥
यच्च शोकादि वासनाहेतुकं परिकीर्तितम् , न तु भिन्नवस्तुनिमित्तकम् । तदयुक्तम् , यतश्चित्रा शोकादिजनकत्वेन
१ नाम स्थापना गव्य इत्येष द्रव्यास्तिकस्य निक्षेपः । भावश्च पर्यवास्तिकत्ररूपणैष परमार्थः ॥ १॥ २ मुद्रितसम्मतिमूलपुस्तके 'ए तिएसुद' इति पाठः । ३ मुद्रितमूलसम्मती 'वो उ प' इति । ४ 'नयकाण्डे षष्ठया' इति शेषः ।
CSCRICENSHOOCCASIREONE
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org