________________
शास्त्रवार्तासमुच्चयः । ॥२४१॥
Jain Education Inter
Sभेदग्राहिणोर्द्वयोः समुदितयोरपि मिथ्यादृष्टित्वात् अभेदे पर्यायद्वया (द्रव्या) सहोक्तिप्रसङ्गात् भेदे पर्यायार्थिकेनापि द्रव्यग्र है द्रव्यार्थिकस्यान्तर्गत्वप्रसक्त्यैतन्ययस्य भाष्यकृतैव निरस्तत्वाचेति ।
मैवम्, अविशुद्धानां नैगमादिभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमाद् न तत्र भावनिःक्षेपानुपपत्तिः, अत एवागमः- “जीवो गुणपडिवनो यस्स दव्वद्विअस्स सामइअं " इति । अत्र हि समतापरिणामविशिष्टे जीवे सामायिकत्वं विधीयत इति । न चैवं पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थनयानां तु नैगमवदविशुद्धयभावाद् न नामाद्यभ्युपगन्तुत्वम् । वास्तवं तद्विषयत्वं तु नोक्तविभागव्याघाताय स्वातन्त्र्येण पर्यायविषयत्वं स्वव्याहतमिति पर्यालोचयामः ।
ननु तथापि " णोमाइतियं दव्वद्वियस्स भावो अपज्जवणयस्तै" इति मङ्गलाधिकारेऽभिधाय, उपोद्घाते “भवं चिय सद्दणया सेसा इच्छेति सव्वणिक्खेवे" इति वदतां भाष्यकृतां कोऽभिप्रायः । इति चेत् । अयमभिप्रायः- पूर्व शुद्धचरणोयोगरूपभावमङ्गलाधिकारसंबन्धाद् नैगमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभाव घटानभ्युपगमात् तथोक्तिः, पृथगनिःक्षेपाच्च न प्रत्ययस्याभिधानतुल्यता । अग्रे तु व्यवस्थाधिकाराद् विशेषोक्तिः, इति 'द्रव्यार्थिकस्य नामादित्रयम्' इत्यत्र नावधारणम्,' ,'पर्यवनयस्य भावः' इत्यत्र चावधारणम्, इत्यनेन स्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिक
१ जीवः गुणप्रतिपक्षो नयस्य द्रव्यार्थिकस्य सामायिकम् । २ नामादित्रिकं द्रव्यास्तिकस्य भावश्च पर्यायास्तिकस्य । ३ विशेषावश्यकभाध्ये गाथा ७५४ भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् ।
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
॥७॥
| ॥२४१॥
www.jainelibrary.org