________________
।
'ऋजुसूत्रो द्रव्यमपि नाभ्युपैति, अत एवाद्यास्त्रयों नया द्रव्याथिकभेदाः, अग्रिमाश्च चत्वारः पर्यायार्थिकभेदाः' इति वादी सिद्धसेनः । अस्मिन्नभ्युपगमे "उज्जुसुअस्स एगे अणुवउत्ते एगं दव्यावस्सयं पुहत्तं णेच्छइ" इति मूत्रविरोधः स्यादिति सिद्धान्तवृद्धाः । 'अतीतानागतपरकीयभेदपृथक्त्वपरित्यागात् , ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमाद् नास्य तुल्यांशध्रुवांशलक्षणद्रव्याभ्युपगमः । अत एव नास्यासद्घटितभूत-भाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि, उक्तसूत्रं स्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिकेन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपात् । अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः, शब्दनयेष्वतिप्रसङ्गात्' इति केचन सिद्धसेनमतानुसारिणः । नैतत् कमनीयम् , नामादिवदनुपचरितद्रव्यनिःक्षेपदर्शनपरत्वादुक्तमूत्रस्य, न चेदेवम् , शब्दादिष्वपि कथश्चिदपचारेण द्रव्यनिःक्षेपप्रसङ्गात् , पृथक्त्वनिषेधेऽपृथक्त्वेन द्रव्यविधेरावश्यकत्वात , एकविशेषनिषेधस्य तदितरविशेषविधिपर्यवसायित्वान्' इत्यादिस्तु जिनभद्रमुखारविन्दनिर्गलचनमकरन्दसंदर्भोपजीविनां ध्वनिः ।
स्यादेतद् द्रव्याथिकेन नामादिचतुष्टयाभ्युपगमे द्रव्यार्थिकत्वव्याहतिः। द्रव्यं प्रधानतया, पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिःक्षेपसह इति चेत् । हन्न ! तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिःक्षेपसहा इति कथमुक्तव्यवस्था ।। एतेन 'द्रव्यार्थिक-पर्यायार्थिकयोईयोस्तुल्यवदेवोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेन, अन्त्यस्य तु सर्वथा भेदेन, इति द्रव्यार्थिकस्पापि पर्यायसहत्यम्' इत्यपास्तम , एवं सति पर्यायाधिकस्य राब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्नभेदा1 सूत्रस्यैकोऽनुपयुक्त एक द्रब्यावश्यकं पृथक्त्वं देच्छति । २ ख.ग.घ.च. 'कथं युक्त' ।
Jain Education
Alwww.jainelibrary.org
a
For Private & Personal Use Only
l