________________
शास्त्रवार्ता- समुच्चयः। ॥२४॥
मेव नामेन्द्रत्वं निरुच्यत इति चेत् । हन्त ' तर्हि सोऽयं विशेषो नाम-स्थापनासाधारण एवं संगृह्यतामित्येतन्निष्कर्षः ।।
सटीकः।
स्तबकः। अत्र वदन्ति- अनुपपन्नमेतद् मतम् , उपचाररूपसंकेतविशेषग्रहे द्रव्यनिःक्षेपस्याप्यनतिरेकमसङ्गात् , यादृच्छिकविशेपोपग्रहस्य चाप्रामाणिकत्वात् , पित्रादिकृतसंकेतविषयस्यैव ग्रहणाद् नाम-स्थापनयोरैक्यायोगात् । एवं च बहुषु नामादिषु प्रातिस्विकैकरूपाभिसंधिरेव संग्रहव्यापार इति प्रतिपत्तव्यम् । यदृच्छयैव संग्रहव्यापारोपगमे तु नाम्नोऽपि भावकारणतया कुतो न द्रव्यान्तर्भाव इति वाच्यम् । द्रव्यं परिणामितया भावतंबद्धम् , नाम तु वाच्यवाचकभावेनेत्यस्ति विशेष इति ।
चेत् । तर्हि स्थापनाया अपि तुल्यपरिणामतया भावसंबद्धत्वात् किं न नाम्नो विशेषः, उपधेयसांकर्येऽप्युपाध्यसांकर्यात् , | विभाजकान्तरोपस्थितौ निःक्षेपान्तरस्येष्टत्वात् "जत्य य जं जाणिज्जा णिक्खेवं णिक्खिये गिरवसेस" इति सूत्रप्रामाण्यादिति पर्यालोचनीयम् ।
स्यादेतत् षण्णां प्रदेशस्वीकर्तुगमात् पश्चानां स्वीकारत इवात्रापि चतुनिःक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव संग्रहस्य विशेषो युक्त इति। मैवम् , देशप्रदेशवत् स्थापनाया उपचरितविभागाभावेन संग्रहविशेषात् । अन्यथा यथाक्रमविशुद्ध्या एवंभूतस्य निःक्षेपशून्यत्वमसङ्गादिति न किश्चिदेतत् । एतेन 'व्यवहारोऽपि स्थापनां नेच्छति' इति केषांचिद् मतं निरस्तम् । न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, न वा भवनपि भ्रान्त एव, न वा नामादिप्रतिपक्षव्यवहारसांकर्यमस्ति, इत्यर्धजरतीयमेतद् यदुत-लोकव्यवहारानुरोधित्वम् , स्थापनानभ्युपगन्तृत्वं चेति ।
२४०॥ १ यत्र च यजानीयाद् निक्षेपं निक्षिपेद् निरवशेषम् ।
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org