________________
TOTolloSororobooOPONS
'गुण-पर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीवः' इत्यन्येषां मतम् । तदपि न सूक्ष्मम् , सतां गुण-पर्यायाणां बुद्धयाऽपनयस्य कर्तुमशक्यत्वात् । न हि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । 'जीवशब्दार्थज्ञस्तत्रानुपयुक्तः, जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति नाव्यापिता नामादीनाम्' इत्यपि बदन्ति ।
अत्र च पर्यायार्थिकस्य भावनिःक्षेप एवाभिमतः, द्रव्याधिकस्य तु चत्वारोऽपीति । यदाह भगवान् जिनभद्रगणिक्षमाश्रमणः- "भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खे" इति । अत एव चरणगुणस्थितस्य साधोः सर्वनयविशुद्धत्वे सर्वनयानां भावग्राहित्वं हेतुतयोद्भावितम् । अत एव नैगम संग्रह-व्यवहार-ऋजुमूत्राणामपि चत्वारो निःक्षेपाः, तेषां द्रव्यार्थिकभेदत्वात् । शब्द-समभिरूढ-वंभूतानां तु भावनिःक्षेप एव, पर्यापार्थिक भेदत्वादेषाम् ।
'संग्रहः स्थापनां नेच्छति' इत्येके, संग्रहप्रवणेनानेन नामनिक्षेप एव स्थापनाया उपसंग्रहात् । न च "णाम आवकहियं होज्जा; ठवणा इत्तरिया वा होज्जा, आवकहिआ या होजा" इति सूत्र एव तयोविशेषाभिधानात् कथमैकरूप्यम् ? इत्याशङ्कनीयम् , पाचक-याचकादिनाम्नामप्ययावत्काथिकत्वात् तदव्यापकत्वात् , स्थूलभेदमात्रकथनात् । पद प्रतिकृतिभ्यां नाम-स्थापनयोर्भेद इति चेत् । कथं तर्हि गोपालदारके नामेन्द्रत्वम् ? । अथ नामेन्द्रत्वं द्विविधम्- इन्द्र इति पदत्वमेकम् , अपरं चेन्द्रपदसंकेतविषयत्वम् । आचं नाम्नि, द्वितीयं च पदार्थे, इति न दोप इति चेत् । तर्हि व्यक्त्याकृतिजातीनां पदार्थत्वेनेन्द्रस्थापनाया अपीन्द्रपदसंकेतविषयत्वात् कथं न गोपालदारकवद् नामेन्द्रत्वम् । नाम भावनिक्षेपसांकर्यपरिहारायेन्द्रपदसंकेतविशेषविषयत्व
भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् । २ नाम यावत्कधिकं भवेत् ; स्थापगेस्वरी षा भवेत, यावरकथिका वा भवेत् ।
Jain Education
anal
For Private Personal use only
www.jainelibrary.org