________________
।
सटीकः । स्तबकः।
शास्त्रवार्ता- व्यवहारायव्यवस्था । तदिदमुवाच वाचकमुख्यः- "नाम-स्थापना-द्रव्य-भावतस्तन्न्यासः" इति । 'घटः' इत्यभिधानमपि घट समुच्चयः। एव, "अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः" इति वचनात् , वाच्य-वाचकयोर्भेदे प्रतिनियतशक्त्यनुपपत्तेश्च । इति नामनि:॥२३९॥ क्षेपः । घटाकारोऽपि घट एव, तुल्यपरिणामत्वात् । अन्यथा तत्त्वायोगात , मुख्यार्थमात्राभावादेव तत्प्रतिकृतित्वोपपत्तेः । इति
स्थापनानिःक्षेपः । मृत्पिण्डादिद्रव्यघटोऽपि घट एव, अन्यथा परिणामपरिणामिभावानुपपत्तेः । इति द्रव्यनिःक्षेपः। घटोपयोगः, | घटनक्रियैव वा घटः, तस्यैव स्वार्थक्रियाकारित्वात् । इति भावनिःक्षेपः। एतद्विषयविस्तरस्तु विशेषावश्यकादौ ।
अत्रेदं विचार्यते- ननु नामादीनां सर्ववस्तुव्यापित्वमुपगम्यते नवा ? । आये व्यभिचारः, अनभिलाप्यभावेषु नामनिःक्षेपाप्रवृत्तेः, द्रव्यजीव-द्रव्यद्रव्याद्यसिद्धयाऽभिलाप्यभावव्यापिताया अपि वक्तुमशक्यत्वाच । अन्त्ये "जत्थ वि यण याणिज्जा चउक्कयं निक्खित्रे तत्थ" इति मूत्रविरोधः, अत्र यत्तत्पदयोाप्त्यभिप्रायेणोक्तरिति चेत् ।
अत्र वदन्ति-- तत्तद्वयभिचारस्थानान्यत्वविशेषणाद् न दोपः, संभवव्याप्त्यभिप्रायेणैव 'यत्र तत्र' इत्युक्तेः । तदिदमुक्तं तत्त्वार्थटीकाकृता- “यद्यत्रैकस्मिन् न संभवति नैतावता भवत्यव्यापिता" इति । अपरे त्याहुः- 'केवलिप्रज्ञारूपमेव नामानभिलाप्यभावेष्वस्ति, द्रव्यजीवश्च मनुष्यादिरेव, भाविदेवादिजीवपर्यायहेतुत्वात् । द्रव्यद्रव्यमपि मृदादिरेव, आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वात्' इति । एतच्च मतं नातिरमणीयम् , द्रव्याथिकेन शब्दपुद्गलरूपस्यैव नान्नोऽभ्युपगमात् , मनुष्यादीनां द्रव्यजीवत्वे च सिद्धस्यैव भावजीवत्वप्रसङ्गात् , आदिष्टद्रव्यहेतुद्रव्यद्रव्योपगमे थावद्रव्योच्छेदप्रसङ्गाच्चेति ।
१ तस्वार्थसूत्रे ।। ५। २ यत्रापि च न जानीयात् चतुष्कं निक्षिपेत् तत्र ।
२३९॥
Jain Education in
For Private & Personel Use Only
ENww.jainelibrary.org