________________
वामात्रेण तथाभ्युपगमे त्वाहतदित्थंभूतमेवेति द्रानभस्तो न जातुचित्। भूत्वाऽभावश्च नाशोऽपि तदेवेति न लौकिकम्१७
तदित्यंभूतमेव-क्षणस्थितिकमेव, स्वभावात् , न वितरावध्यपेक्षयेति भावः, इति चेत् । न जातुचित्- कदाचित् , द्राक्-शीघ्रम् , परिणामिकारणं विना, नभस्त:- आकाशात् , उपपद्यते, प्रमाणाभावात् । नभस्त एव वा न व्यवतिष्ठते, भूत्वाऽभावश्च नाशोऽपि, तदेव- भावमात्रमेव, तदेव न भवतीति प्रतीतेः, इति न लौकिकमेतत् , किन्तु प्रामाणिकम् । एवं च | भावाभावरूपत्वाद् वस्तुनो भित्रकाले स्वकाले चोत्पादादित्रयात्मकत्वमेव । इत्थं च 'ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः, यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यनपेक्षाश्च भावा इति विनाशनियतास्ते' इति परेषामभिधानमपि न प्रकृतबाधकम्, प्रत्युतानुकूलमेव, भावस्योत्तरपरिणाम प्रत्यनपेक्षतया तद्भावनियतत्वोपपत्तेः, पूर्वक्षणस्य स्वयमेवोत्तरीभवतोऽपरापेक्षाभावतः क्षेपायोगात, उत्पन्नस्य चोत्पत्ति-स्थिति-विनाशेषु कारणान्तरानपेक्षस्य पुनः पुनरुत्पत्ति-स्थिति-विनाशत्रय| मवश्यंभावि, अंशनोत्पन्नस्यांशान्तरेण पुनः पुनरुत्पत्तिसंभवात् । इति सिद्धमेकदैकत्र त्रयम् ।।
. ये त्वाहुः- 'घटोत्पादकाले घटनाशाभ्युपगमे 'घटो नष्टः' इति प्रयोगः स्यात, अन्यनाशे च घटस्योत्पनत्वैकान्त एव' हात । तऽप्यतात्पर्यज्ञाः स्यादुपस्यन्दनेन द्रव्यार्थतया घटपदस्य तथाप्रयोगस्येष्टत्वात , अंशे तत्पतियोगित्वस्य, अंश वदाधारत्वस्य च संभवात् । विरोधस्यापि तृतीयार्थावरुद्धस्यात्पदप्रतिरुद्धत्वात् । न खलु निःक्षेपतत्त्ववेदिनां कचन कापि प्रयोग
90
For Private Personal Use Only
Jain Education interfinalinal
vww.jainelibrary.org