SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मणि।अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत्॥१५॥ | सटीकः। समुच्चयः। स्तबकः। ॥२३८॥ इष्यते च- अनुभूयते च, परैः- सौगतैः, मोहात्- अज्ञानात् , तत्- उत्पादादित्रयम् , क्षणस्थितिधर्मणि वस्तुन्य-8॥७॥ भ्युपगम्यमाने । कथम् ? इत्याह- अभावेऽन्यतमस्याप्युत्पादादीनां मध्ये, तत्र- वस्तुनि, तत्त्वं- क्षणस्थितिकत्वम् , यद्-यo स्मात् , न भवेत् । तत्क्षणे भवनादुत्पन्नम् , अग्रिमक्षणेऽभवनाच्च नष्टम् , तदावस्थितेश्च ध्रुवमेव हि क्षणस्थितिस्वभावमुच्यमानं पर्यवस्येदिति, अग्रिपक्षणेऽन्यस्याभवने तदन्यथाभावाभाव क्षणिकत्वव्याघातादित्युपपादितचरम् । एवं च परैस्च्यात्मकं वस्त्वनुभूयमानमपि त्र्यात्मकत्वेन नाभ्युपगम्यते । तत्र च च्यात्मकत्वं विना स्वाभ्युपगमान्यथानुपपत्त्यैव च्यात्मकत्वं बलादेव्यमिति भावः ॥१५॥ पराभिप्रायमाशङ्कय परिहरतिभावमानं तदिष्टं चेत्तदित्थं निर्विशेषणम्।क्षणस्थितिस्वभावं तुनह्युत्पाद-व्ययौ विना १६ ___ भावमात्रं तद् वस्तु क्षणस्थितिकमिष्टम्, न तु क्षणस्थितिकत्वमपि तत्र तदतिरिक्तमस्तीति चेत् । इत्थं तद् वस्तु निर्विशेषणं जातम् । एवं च 'किंरूपं तत्' इति न निश्चयोऽयापि देवानांप्रियस्य । क्षणस्थितिस्वभावं तु तदुच्यमान, हिनिश्चितम् , उत्पाद व्ययौ विना न युक्तम् , क्षणोर्ध्वमस्थित्यपेक्षयैव क्षणस्थितिस्वभावत्वव्यवस्थितेः ।। १६ ॥ २३८॥ Jain Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy