________________
तस्माद् द्रव्य-भावभेदाद् द्विविधा वाक् । तत्राद्या द्विविधा- द्रव्यात्मिका, पर्यायात्मिका च । तत्र शब्दपुद्गलरूपा द्रव्यात्मिका, श्रोत्रग्राह्यपरिणामापना च सैव पर्यायात्मिका । तामन्ये 'वैखरी' इति परिभाषन्ते । द्वितीयापि द्विविधा- व्यक्तिरूपा, शक्तिरूपा च । आधा सविकल्पिका धीरन्तर्जल्पाकारप्रतिनियतशब्दोल्लेखजननी । तामन्ये 'मध्यमा' इत्यध्यवस्यन्ति । द्वितीया च सविकल्पबुद्ध्यावारककर्मक्षयोपशमशक्तिरूपा, तामन्ये पश्यन्तीमाचक्षत इति दिक् । तस्मादुत्पाद-व्ययाभावे ध्रौव्यस्याप्यसंभव इति युक्तमुक्तम् । अन्यथा त्रितयाभाव इति । तत्- तस्मात् कारणात् , एकदैकत्र किं नोत्पादादित्रयम् । यदेव ह्युत्पन्नं तदेव कथश्चिदुत्पद्यते, उत्पत्स्यते च । यदेव नष्टं तदेव नश्यति, नयति च । यदेवावस्थित | तदेवावतिष्ठते, अवस्थास्यते चेति ॥ १३ ॥
इदमेवोपसहरबाहएकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते॥१४॥ ___एकत्रैव- अधिकृतघटादिवस्तुति, एकदैव- विवक्षितकाले, एतत् त्रयम्- उत्पाद-व्यय-ध्रौव्यलक्षणम् , इत्थम्उक्तरीत्या, भिन्ननिमित्तत्वात- भिन्नापेक्षत्वात् , अभूतभवन-भूताभवन-तदुभयाधारस्वभावत्वमेदादिति वा, न्याय्यं-घटमा| नम्, तदभेदे- निमित्ताभेदे, न युज्यत एकत्र त्रयम् , भिन्नापेक्षाणामेकापेक्षत्वायोगात् , एकस्य भेदायोगाद् वेति भावः॥१४॥
परे पुनरित्थमनुभवन्तोऽपि प्रतिक्षिपन्तीति तेषामज्ञानमाविष्कुर्वन्नाह---
Jain Education
national
For Private & Personel Use Only
www.jainelibrary.org