SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाती समुच्चयः । ॥२३७॥ भाव शब्दह्मेति प्रत्यवस्थं भेदोपपत्तिः, स्वातिरिक्तभेदकाभावाच्च नाद्वैतव्याघात इति चेत् । इन्त ! तर्हि जगद्वैचित्र्यस्यैव 'शब्दब्रह्म' इति नामान्तरकीर्तनमायुष्मतः । अविद्यकः सकलो भेदानुपाती प्रपञ्चः, इति तत्रतोऽभिन्नमेव शब्दब्रह्मेति चेत् । एवं तर्हि द्विचन्द्रादिनदसन् प्रपञ्च इति तत्प्रकृतित्वं शब्दब्रह्मणो न स्यात् । न हि सतोऽसत्प्रकृतित्वं नाम । एवं च "अनुविद्धैकरूपत्वाद् वीचीबुदबुद फेनवत् । वाचः सारमपेक्षन्ते शब्दब्रह्मोदकाद्वयम् ॥ १ ॥” इत्यभिधानमयुक्तं स्यात्, सारजलस्य स्वावस्थाविशेषबुद्बुदादितिरोभावक्षमत्वेऽपि शब्दब्रह्मणः स्वावस्थानाक्रान्तप्रपञ्चतिरोभावासमत्वात् । अविद्यादशायां शब्दब्रह्मणस्तत्त्वाऽन्यत्वाभ्यामनुपाख्यः प्रपञ्च भासते, तद्विलये तु न, इत्यद्वितीयशब्दब्रह्मावसाय इति चेत् । कस्यायमीदृगवसायः १ । योगिन इति चेत् । स एव तर्हि संशयपथं पृच्छयताम् - किमसौ शब्दाद्वयमात्रं जगत् पश्यति, विचित्रस्वरूपं वेति । किञ्च, अविद्या ब्रह्मणो भिन्ना, अभिन्ना वा १ । भिन्ना चेत् । वस्तुभूता, अवस्तुभूता वा । न तावदवस्तुभूता, अर्थक्रियाकारित्वात् ब्रह्मवत् । न च नार्थक्रियाकारित्वमप्यस्याः, तिमिरवद् भ्रमजनकत्वाभिधानात्, अवस्तुमाहात्म्याद् वस्तुनोऽन्यथाभावेऽतिप्रसक्तेः । वस्तुभूता चेत् । तदा ब्रह्म विद्या चेति द्वैतमापन्नम् । अभिन्ना चेत् । ब्रह्मवद् मिथ्याधीनिमित्तं न स्यात् । तस्मादिदानीं शब्दब्रह्मण आत्मज्योतीरूपेणाप्रकाशनं नाविद्याभिभूतत्वात्, किन्तु तथा सच्चादेवेति प्रतिपत्तव्यम् । एवं चास्य वैखर्यादिवाग्भेदकल्पनमपि न युज्यते, एक-द्वयात्मकतत्त्वानुपगमे भेदपरिगणनस्याशक्यत्वात् । १ अविद्याजन्य इत्यर्थः । Jain Education International For Private & Personal Use Only सटीकः । स्तवकः । 11911 ॥२३७॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy