SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Jain Education पत्तेः । न हि 'घटो घटानुविद्ध:' इति प्रयुञ्जते प्रामाणिकाः । विवक्षा-विवक्षाभ्यां तथाप्रयोगा-प्रयोगोपपत्तिः, यथा 'कुण्डे कुण्डस्वरूपम्' इति प्रयोगः, न तु 'कुण्डे कुण्डम्' इति, इति चेत् । न, तथापि शब्द- बोधयोरेकान्ततादात्म्ये शब्दस्य जडत्वाद् बोधस्यापि जडतापत्तेः, शब्दस्य बोधरूपत्वेन बोधमात्रवादापत्तेः । तथा चान्यस्यान्यबोधाबोद्धवदन्यशब्दश्रोतृत्वं न भवेत् । भावे वा सकलप्रमातृबोधाभिन्नशब्दग्राहित्वाद् निरुपायं सर्वस्य सर्वचित्तवित्त्वं स्यात् । तथाच समन्तभद्रः -- “ बोधात्मता चेच्छब्दस्य न स्यादन्यत्र तच्छ्रुतिः । यद् बोद्धारं परित्यज्य न बोधोऽन्यत्र गच्छति ॥ १ ॥ न च स्यात्प्रत्ययो लोके यः श्रोत्रा न प्रतीयते । शब्दाभेदेन सत्येवं सर्वः स्यात्परचित्तवित् ॥ २ ॥” इति । अतः शब्दानुविद्धः प्रत्ययो न जगतः शब्दमयत्वे साक्षी । किञ्च, शब्दमयत्वं जगतः शब्दपरिणामरूपत्वम्, नीलादिपरिणामश्च शब्दस्य स्वाभाविकशब्दस्वरूपपरित्यागे, तदपरित्यागे वा १। आधे, अनादि-निधनत्वाविरोधः । द्वितीये, नीलादिसंवेदनाले बधिरस्यापि शब्दसंवेदनापत्तिः । स्थूलशब्दपरिणामपरित्यागेऽपि सूक्ष्मशब्दरूपापरित्यागात् प्रथमविकल्पे न दोष इति चेत् । न, सूक्ष्मस्य सतस्तादृशदलोपचयाभावे तादृशस्थूलरूपासंभवात् सूक्ष्मस्य शब्दस्य तादृशार्थपरिणामः, सूक्ष्मस्याऽर्थस्य वा तादृशशब्दपरिणाम इति विनिगन्तुमशक्यत्वाच्च । घटादिरर्थो घटादिशब्दोपरागेणानुभूयत इत्यर्थ एव शब्दपरिणाम इति चेत् । न, 'अयं घटः' इत्यत्र हि 'अयं घटपदवाच्यः' इत्येवानुभवः, न तु 'अयं घटपदात्मा' इति । किञ्च, शब्दार्थयोरेकान्ताभेदे खड्गादिशब्दोच्चारणे वदनविदारणमपि वैयाकरणस्य प्रसज्येत । यत्नेन मुखे निवेश्यमानस्य खड्गभागस्येव खड्गशब्दस्यावस्थाविशेषाद् न वदनविदारकत्वमिति चेत् । न, अद्वैतेऽवस्थाभेदस्यैवासिद्धेः । स्वयमेव विचित्र For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy