________________
शाखवाता
समुच्चयः
सटीकः । स्तवकः । ॥ ७ ॥
॥२३६॥
- "अविभागा तु पश्यन्ती सर्वतः संहतकमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥१॥"
पश्यन्ती- प्रत्यक्षस्वरूपा वागियम् । यस्यां वाच्य-वाचकयोविभागेनावभासो नास्ति, सर्वतश्च सजातीयविजातीया- पेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देश-कालकृतो यत्र, क्रमविवर्त शक्तिस्तु विद्यते । स्वरूपज्योतिः- स्वप्रकाशा वेद्यते,
सार वेदकभेदातिक्रमात् । मूक्ष्मा- दुर्लक्षा, अनपायिनी, कालभेदास्पर्शादिति । अत एव शब्दार्थयोः संबन्धस्तादात्म्यमेव । न हि 'अयं घटः' इतीदमर्थे तटस्थघटपदस्योपरागोऽस्ति, किन्तु घटपदाभेद एव भासते । इति व्यवहारोऽपि सकलः शब्दानुविद्ध एव दृश्यते । न हि 'भोक्ष्ये' 'दास्यामि' इत्याद्यनुल्लिखितशब्दः कश्चिदपि स्वयं भोजन-दानाद्यर्थ प्रयतते; परं वा 'भुक्ष्व' 'देहि' इत्यादिशब्दं विना प्रवर्तयति । जीवित-मरणस्वरूपाविर्भावोऽपि शब्दाधीन एव, सुषुप्तदशायामनुल्लिखितशब्दस्य मृताविशेषात् । तदुत्तरसमये च कुतश्चित् शब्दात् प्रवुद्धस्यान्तर्जल्पात्मना शब्देनैव जीविनानुसंधानात् । न चाद्वयरूपे तत्त्वे कथमाविर्भाव-तिरोभावादिरूपप्रपञ्चभेदप्रतिभासः ? इति वाच्यम् ; तिमिरतिरस्कृतलोचनस्य विशुद्धेऽप्याकाशे विचित्ररेखाभेदप्रतिभासवदनाद्यविद्योपप्लुप्तचित्तस्य प्रपञ्चभेदप्रतिभासात् । यथा च तिमिरविलये विशुद्धाकाशदर्शनं तथा निखिलाविद्याविलये शुद्धशब्दब्रह्मदर्शनम् । तच्चाभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणैः प्रणवस्वरूपमवाप्यत इति ।
अत्र च शब्दप्रत्ययादौ को नाम शब्दानुवेधः परस्याभिमतः । न नाम संयोगः, समवायो वा, द्रव्ययोरेव संयोगात् । गुणादीनामेव च समवायात् । 'घटो नीलानुविद्धः' इत्यत्रेव तादात्म्येऽनुवेधपदप्रयोग इति चेत् । न, एकान्ताभेदे तदनुप
१ ख, ग, घ, च. 'तत्र'।
॥२३६॥
Jain Education Betonal
For Private & Personal Use Only
www.jainelibrary.org